SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २७२ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू० ६३-६८ । सुखादे: ।। ७. २. ६३ ।। ... सुखादिभ्यो मत्वर्थे इन्नेव प्रत्ययो भवति । सुखी, दुखी। सुख, दुःख, तृप्र, कृच्छ, अस्र, अलीक, कृपण, सोढ, प्रतीप, प्रणय, हस्त, (हल) आस्र, कक्ष, शील इत्येके इति सुखादिः ।६३। मालायाः क्षेपे ॥ ७. २. ६४ ॥ मालाशब्दात्क्षेपे गम्यमाने मत्वर्थे इन्नेव प्रत्ययो भवति । माली । क्षेप इति किम ? मालावान्, मालाशब्द: शिखादिः। ततः क्षेपे मतुनिवृत्त्यर्थं वचनम् ।६४॥ धर्मशीलवर्णान्तात् ॥ ७. २. ६५ ॥ धर्मशीलवर्ण इत्येतदन्तान्मत्वर्थ इन्नेक भवति । मुनिधर्मी, यतिशीली, ब्राह्मणवर्णी ॥६५॥ बाहर्वादेवलात् ।। ७. २. ६६ ॥ बाहु-ऊरुपूर्वोद्वलान्तानाम्नो मत्वर्थे इन्नेव भवति । बाहुबली, ऊरुबली ।६६। मन्माब्जादेर्नाम्नि ॥ ७. .२ ६७ ॥ ___ मन्नन्तेभ्यो मान्तेभ्योऽजादिभ्यश्च मत्वर्थे इन्नेव भवति नाम्नि समुदायश्रेत्कस्यचिन्नाम भवति । मन्नन्त, दामिनी, सामिनी, प्रथिमिनी, महिमिती, धमिणी (वमिणी)। कमिणी, मान्त-प्रथमिनी, भामिनी, कामिनी, यामिनी, सोमिनी, अब्जादि, अब्जिनी, कमलिनी, सरोरुहिणी, सरोजिनी, अम्भोजिनी, राजीविनी, अरविन्दिनी, पङ्कजिनी, पुटकिनी, नालीकिनी, मृणालिनी, बिसिनी, तामर सिनी, यवासिनी। नाम्नीति किम् ? सामवान्, सोमवान्, अब्जवान् ।६७। न्या० स० मन्म०-प्रत्ययाप्रत्ययोः इति न्यायात् मन्नन्तेभ्य इत्युक्तेऽपि मन्प्रत्ययान्तेभ्य इति दृश्यं अब्जिन्यादयः कमलिनीवाचकाः यवासिनी त्वौषधिः । हस्तदन्तकराज्जातौ ॥ ७. २. ६८ ॥ हस्त दन्त कर इत्येतेभ्यो मत्वर्थे इन्नेव भवति समुदायेन चेज्जातिरभिधीयते । हस्तोऽस्यास्तीति हस्ती, दन्ती, करी। जाताविति किम् ? हस्तवान्, दन्तवान् करगन् नरः । ६८। न्या० स० हस्त०-ननु हस्ती इत्यादिभिर्जातिमानेवाभिधीयते न जातिस्तत्कथमनेन ? सत्यं, जातिमत्युच्यमाने गौणवृत्त्या जातिरप्युच्यते, गौणमुख्यन्यायस्तु मुख्यया वृत्त्या
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy