SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ पाद. २. सू. ५८-६२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२७१ एकादेः कर्मधारयात् ॥ ७. २. ५८ ॥ एकादेः कर्मधारयादकारान्तान्मत्वर्थे इकण प्रत्ययो भवति । एको गौरेकगवः सोऽस्यास्त्यैकगविकः, ऐकशतिकः ऐकसहस्रिकः । कर्मधारयादिति किम् ? एकस्य गौरेकगवः सोऽस्यास्ति इति न भवति । अत इत्येव ? एकविंशतिरस्यास्तीति न भवति । कथमेकद्रव्यवत्त्वादिति । एकेन द्रव्यवत्त्वमिति समासे भविष्यति ।५८। न्या स० एका०-समासे इति । 'ऊनार्थपूर्वाद्यैः' ३-१-६७ इत्यनेन । सर्वादेरिन् ॥ ७. २. ५९॥ सर्वादेरकारान्तात्कर्मधारयान्मत्वर्थे इन् प्रत्ययो भवति । सर्वं धनं सर्वधनम् तदस्यास्तीति सर्वधनी, सर्वबीजी, सर्वकेशी नटः ।५९। प्राणिस्थादस्वाङ्गाद्वन्द्वरुमिन्द्यात् ।। ७. २. ६० ॥ प्राणिस्थोऽस्वाङ्गवाची अकारान्तो यो द्वन्द्वः समासो यश्च रुग्वाची निन्द्यवाची च शब्दस्तस्मान्मत्वर्थे इन् प्रत्ययो भवति । द्वन्द्व. कटकवलयिनी। शंखनपुरिणी । रुक्-कुष्टी, किलासी, निन्ध, ककुदावर्ती, काकतालुकी । प्राणि स्थादिति किम् ? पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ? स्तनकेशवती। अत इत्येव ? चित्रकललाटिकावती । विपादिकावती । काकतालुमती । " अतोऽनेकस्वरात् ' (७-२-६) इत्येव सिद्ध इकादिबाधनार्थं वचनम् ।६०। न्य० स० प्राणि-शखनूपुरिणीति अनुपरतो वो यस्य यस्माद् वा तदनुपरतरवं तस्य पृषोदरादित्वान्नूपुरादेशः ‘श्वशुर' ३-१-१२३ इति निपातनाद् वा । वातातीसारपिशाचात्कश्वान्तः ॥ ७. २. ६१ ॥ वात, अतीसार, पिशाच इत्येतेभ्यो मत्वर्थे इन् प्रत्ययो भवति ककारश्चान्तः । वातातीसारयो रुक्त्वात् पूर्वेणेन् सिद्धः कार्थमुपादानम् । पिशाचस्य तूभयार्थम् । वातकी, अतीसारकी, पिशाचकी ।६१॥ न्या० स० वाता०-अब एकदेशविकृतेति न्यायादतिसारकीत्यपि । पूरणादयसि ॥ ७. २. ६२॥ पूरणप्रत्ययान्ताद्वयसि गम्यमाने मत्वर्थे इन्नेव प्रत्ययो भवति । पञ्चमो मासः संवत्सरो वास्यास्तीति पञ्चमी बालकः दशमी करभः ।२। न्या. स. पूर.-ननु 'अतोऽनेकस्वरात्' ७-२-६ इत्यनेनेन् सिद्ध एव किमनेन ? सत्यं, इन्नेवेति नियमार्थ तेन हि इविधाने इकोऽपि स्यादिति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy