SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २५६ ] बृहवृत्ति-लघुन्यासर्सवलिते [पा० २. सू० १] अतिशायने-उदरिणी कन्या, बलवान् मल्लः, संसर्गे, दण्डी छत्री । प्रायिकमेतद्भमादिदर्शनं सत्तामात्रेऽपि प्रत्ययो दृश्यते । व्याघ्रकान्, पर्वतः, स्पर्शरसगन्धवर्णवन्तः पुलाः, रूपरसगन्धस्पर्शवती पृथिवी, रूपरसस्पर्शवत्य आपः, रूपस्पर्शवत्तेजः, स्पर्शवान् वायुः। यक्मतीभिरद्भिद्रूपं प्रोक्षन्ति । तथा मत्वर्थीयान्मत्वर्थीयः सरूपो न भवति, गाव एषां सन्तीति गोमन्तः गोमन्तोऽत्र सन्तीति मतुर्न भवति, दण्ड एषामस्तीति दण्डिकाः दण्डिका अत्र सन्तीति इको न भवति । विरूपस्तु भवत्येव । दण्डिमती शाला, हस्तिमती उपत्यका । विरूपोधि मत्वर्थीयः समानायां वृत्तौ न भवति । दण्ड एषामस्तीति दण्डिकाः दण्डिनः । दण्डिका अस्य सन्ति दण्डिनोऽस्य सन्तीति इन्मतू न भक्तः ॥ . 'शैषिकाच्छैषिको नेष्टः सरूपः प्रत्ययः क्वचित् ।। समानवत्ती मत्वथन्मित्वर्थीयोऽपि नेष्यते ॥१॥ कचिदिति समानायामसमानायां च वृत्ती, शालायां भवः शालीय । ' दोरीयः' (६-३-३१) इतीये सति पुनः शालीये भवः शालीयस्यायं वेतीयो न भवति । विरूपस्तु भवति । अहिच्छत्रे भव आहिच्छत्रः तत्र भव आहिच्छत्रीयः ॥ तथा असंज्ञाभूतात् कर्मधारयान्मत्वर्थीयो न भवति । वीरपुरुषा अस्मिन् ग्रामे सन्ति । अत्र बहुव्रीहिरेव भवति । वीरपुरुषको ग्रामः, संज्ञायास्तु भवत्येव-गौरखरवदरण्यम्, कृष्णसर्पवान् वल्मीकः, लोहितशालिमान ग्रामः । कथमैकगविकः सर्वधनीति । 'एकादेः कर्मधारयात्' (-७-२-५८) इत्याद्यारम्भसामर्थ्याद्भविष्यति । तथा गुणे गुणिनि च ये मुणशब्दा वर्तन्ते तेभ्यो मत्वर्थीयो न भवति । शुक्लो वर्णोऽस्यास्तीति तिक्तो रसोऽस्यास्तोति प्रत्ययमन्तरेणाप्येषां तदभिधाने सामर्थ्यात्, ये तु गुणमात्रे तेभ्यो भवत्येव । रूपवान् रसवान् शौक्ल्यवान् कायॆवानिति ।। ____ अर्ह । तद०-अस्तीति चेति यदा अस्तिशब्दो घनार्थस्तदास्तिमानित्युपपद्यते, यदा तु विद्यमानार्थस्तदा कथं द्वयोरेकार्थत्वादित्याह-सामान्याभिधायीति अस्तीति क्रियापदं सामान्याभिधायि सामान्येनास्तित्वमात्रप्रतिपादनात् , प्रकृतिभूतस्य त्वव्ययस्य विशेषाभिधायित्वं विद्यमानत्वरूपविशेषस्याभिधानात् । ____ अस्तीति वर्तमानेति यद्यपि सूत्रे लिग संख्या कालश्चातन्त्राणि तथापीह सूत्रे वर्तमानकालस्यैव प्राधान्यमस्तीतिपदोपादानादन्यथा किमनेन १ न खलु पदार्थः सत्तां व्यभिचरति, ततः सत्तायां निसर्गसिद्धायां यत्पुनरस्तीति ग्रहणं तद्वर्तमानकालार्थम् ।। एषेषेति एषा या त्वया पृष्टा सा एषा वक्ष्यमाणेत्यर्थः। कथं मतुरिति वर्तमानत्वाभावादित्यर्थः । धातो: सम्बन्ध इति अनेन सूत्रेणायथाकालमपि प्रत्यया भवन्तीत्यर्थः, तेन प्रत्ययस्य वर्तमानकालत्वेऽपि भूतभविष्यत्कालतावगमः । शबलगुरिति शबलशब्दावर्णवाचिनो गौरादित्वात्
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy