________________
॥ द्वितीयः पादः ॥
तदस्यास्त्यस्मिन्निति मतुः ।। ७. २. १ ।।
तदिति प्रथमान्तादस्येति षष्ठ्यर्थेऽस्मिन्निति सप्तम्यर्थे वा मतुः प्रत्ययो भवति यत्तत्प्रथमान्तमस्तीति चेत्तद्भवति अस्तिसमानाधिकरणं भवतीत्यर्थः ।
गावोऽस्य सन्ति गोमान् यवमान् वृक्षा अस्मिन् सन्ति वृक्षवान् प्लक्षवान् पर्वतः अस्ति धनमस्य अस्तिमान् स्वस्ति आरोग्यमस्यास्ति स्वस्तिमान्, अत्रास्तिस्वस्ती अव्ययो धनारोग्यवचनौ । अस्तीति च सामा न्याभिधायि । विशेषास्तेश्च सामान्यास्तिना सामानाधिकरण्यमुपपद्यत एव । अस्तीति वर्तमानकालोपादानात् वर्तमान सत्तायां प्रत्ययो भवति न भूतभविष्यसत्तायाम् गावोऽस्यासन् गावोऽस्य भवितार इति । न तर्हि इदानीमिदं भवति गोमानासीत् गोमान् भवितेति । भवति, न त्वेतस्मिवाक्ये भवति । तथा सति हि यथा गोमान् यवमानित्यत्रास्तेः प्रयोगो न भवति एवं गोमानासीत् गोमान् भवितेत्यत्रापि न स्यात् । भवतु वा प्रयोगः तथापि गावोऽस्यासन् गावोऽस्य भवितार इतिवत् गोमानासीदित्यादिष्वपि बहुवचनं श्रुयेत । का तर्हीयं वाचोयुक्तिः गोमानासीत् गोमान् भवितेति ? एषैषा वाचोयुक्तिः, नैषा गवांसत्ता कथ्यते गोमत्सत्तैषा कथ्यते । तहि कथं मतुः ? अस्त्यत्र वर्तमान कालोक्तिः । कथं तर्हि भूतभविष्यत्कालता गम्यते, धातोः संबन्धे प्रत्ययाः' ( ५-४-४१ ) इति । अथेह कस्मान्न भवति, चित्रा गावोऽस्य सन्ति स चित्रगुः शबलगुरिति ? बहुत्रीहिणैव मत्वर्थस्योक्तत्वात् । एवं पूर्वशाल: अपरशालः पञ्चगुः दशगुरित्यत्राप्यस्तीतिपदसापेक्षं तद्धितद्विगु द्वैमातुर इत्यादी सावकाशं बाधित्वा अस्तिपदनिरपेक्षत्वादन्तरङ्गेण बहुव्रीहिणा भवता उक्तार्थत्वान्मतुर्न भवति ।
अस्तीति किम् ? गावोऽस्यानन्तराः, गावोऽस्य समीपाः । अनन्तरादिष्वपि स्यात् । इतिकरणो विवक्षार्थः । तेन
'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।। संसर्गेऽस्ति विवक्षायां प्रायो मत्वादयो मताः ' |१| भूम्नि, - गोमान् यवमान्, निन्दायाम्, - शङ्खोदकी, ककुदावर्ती । प्रशंसायाम्, - रूपवती शीलवती कन्या, नित्ययोगे-क्षीरिणो वृक्षाः कण्टकिनः,