SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [ पाद. २. सू. २] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२५७ यां शबल्यो गावोऽस्य सन्तीत्येवं कार्यम् । यदा तु शवलशब्दो गवि वर्तते तदा गौरादित्वाभावादापि सति ‘तद्धिताककोपान्य' ३-२-५४ इत्यनेन आख्याद्वारेण पुंवत्त्वनिषेधात् शबलागुरित्येव स्यात् । शंखादककुदाव? द्वे अपि अश्वस्यापलक्षणे।। समानायां वृत्ताविति अत्र एषामस्येति च उभयत्रापि षष्ट्याः सद्भावात् समाना वृत्तिः । समानवृत्तावित्यादि पूर्वाद्धे यत्सरूप इति पदं तदुत्तराद्धेऽपि योज्यं, ततोऽयमर्थः-न केवलं सरूपो मत्वर्थीयो मत्वर्थीयात् समानवृत्ती न भवति, मत्वर्थीयोऽपोत्यत्रापिशब्दाद् विरूपोऽपि इति । विषमवृत्तौ सरूपो मत्वर्थीयो न भवतीति तु कारिकया न संजगृहे अथवा पूर्वार्धात् सरूप इति नाधिक्रियते किंतु मत्वर्थीयोऽपि नेष्यत इति सामान्येन भणनात् सरूपो विरूपश्च नेष्यत इत्येव व्याख्यायते, अपिशब्दस्तु शौषिकापेक्षया समुच्चये व्याख्येयः। ____असंज्ञाभूतादिति द्विविधः कर्मधारयः संज्ञाभूतोऽसंज्ञाभूतश्च, तत्र संज्ञाभूतो यः समुदायप्रसिद्धया प्रवर्त्तते यथा गौरखरादयः, असंज्ञाभूतो योऽवयवार्थयोगेन प्रवर्त्तते, न पृथक्समुदायप्रसिद्धया यथा वीरपुरुषादिः । ___ कर्मधारयादित्यादि उपलक्षणमिदं यत्कर्मधारयान्मत्वर्थीयो न भवतीति । यावता नञ् तत्पुरुषादपि बहुव्रीहिणैव भाव्यं, यथा अघोषा इति । अत्र हि न घोषोऽघोषः, सोऽस्यास्ति इति कृते बहुव्रीहिरेव न मतुः, यत्र त्वर्थविशेषो मत्वर्थीयेनाभिधीयते तत्र नजूतत्पुरुषादप्यसो भवति यथानखन्ति चक्राणीति । अत्र हि नञ्तत्पुरुषेण चक्रेश्वरकाभावः सामान्येनोच्यते, मत्वर्थी येन त्वत्यन्तं मूलतोऽप्यरकाभाव यावत् , तथा यद्यप्यसंज्ञाभूतात् कर्मधारयान्मत्वर्थीयो न भवतीत्युक्तं तथापि प्रायेण दृश्यते यथा चिसकिसलयछेदपाथेयवन्त इति, अत्र हि बिसकिसलयच्छेदाच्च ते पाथेयं चेति कर्मधारये मति मतुरिति वल्लभेन निश्चिक्ये । कथमिति अत्राप्यसंज्ञाभूतः कर्मधारयोऽतीत्यभिप्रायः । आ यात् ॥ ७. २. २ ॥ ' गणादिभ्यो यः (७-२-५३) रूपात्प्रशस्ताहतात् (७-२-५४) इत्या एतस्माद्य प्रत्ययात् याः प्रकृतयो निर्देक्ष्यन्ते ताभ्यो मतुः प्रत्ययो भवति तदस्यास्ति तदस्मिन्नस्तोत्यस्मिन्विषये । कुमारीमान्, व्रीहिमान, दण्डवान, अशीर्षवान्, वातवान्, चूडावान्, सिध्मवान्, गोमान्, गुणवान् । आ यादित्यभिविधावाङ् । अपवादै धिा माभूदिति वचनम्, तेन यथाभिधान मुत्तरत्र मतुरपि भवति ।। न्या० स० आ यात्०-अत्र कुमारीमानित्यादि-प्रयोगेषु यथाक्रमं 'नावादेरिकः । ७-२-३ 'ब्रोह्यादिभ्यस्तो' ७-२-५ 'अतोऽनेकस्वरात्' ७-२-६, 'अशिरसोऽशीर्षश्च' ७-२-७ 'बलवातदन्त०' ७-२-१९, 'प्राण्यङ्गादातो लः' ७-२-२०, 'सिध्मादिक्षुद्रजन्तु०' 'गोः' ७-२-५०, 'गुणादिभ्यो यः' ७-२-५३ इत्यादिसूत्रविहितप्रत्ययविषये पक्षे आ यादित्यनेन मतुर्विधीयते । ___यथाभिधानमिति 'कालाजटा' ७-२-२३ इत्यादिभिः कैश्चित्सूत्रैरर्थविशेषे प्रत्ययोऽभिहितः, स च मतुना न गम्यत इति तदर्थप्रतिपादनाय तत्सूत्रविहित एव प्रत्ययो भवति, न तु मतुरित्याशयः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy