SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४८ ] बृहद्वृत्ति - लघुन्यास संवलिते [ पाद. १ सू० १६८-१७१ ] षावगमस्तु अर्थात् प्रकरणात् शब्दान्तरसंनिधेर्वा भवति । पूर्वी कटम्, पूर्वी ओदनम्, पूर्वी पयः । सादेः कृतं पूर्वमनेन कृतपूर्वी कटम्, भुक्तं पूर्वमनेन भुक्तपूर्वी ओदनम्, प्रीतं पूर्वमनेन पीतपूर्वी पयः । कृतपूर्वादिसमासात् प्रत्ययः तान्तं येनैव समानाधिकरणं तस्यैव कर्मतां वक्ति । न च वृत्तौ क्तान्तं कटादिना समानाधिकरणमिति कटादिगतं कर्मानुक्तमिति अतो द्वितीया । १६७। इष्टादेः ।। ७. १. १६८ ॥ इष्ट इत्येवमादिभ्यः सामर्थ्यात्प्रथमान्तेभ्योऽनेनेति तृतीयार्थे कर्तरि इन् प्रत्ययो भवति । इष्टमनेन इष्टी यज्ञे, पूर्ती श्राद्धे । ' व्याप्ये तेनः ' ( २ - २ - ९९ ) इति कर्मणि सप्तमी । इष्ट पूर्त, उपपादित, उपसादित, उपासित निगदित, परिमदित, निकटित, संकलित, परिकलित, संरक्षित, परिरक्षित, अचित, अगणित, अवगणित, अवकीर्ण, अवमुक्त, आयुक्त, गृहीत, अधीत, आम्नात, श्रुत, आसेवित, अवधारित, अवकल्पित, कृत, निराकृत, उपकृत, उपाकृत, अनुयुक्त, अनुगुणित, अनुगणित, गणित, परिगणित, अनुपठित, निपठित, पठित, व्याकुलित, उद्गृहीत कथित, निकथित, निषादित इतीष्टादि: । १६८ । , श्राद्धमद्य भुक्तमिकेनौ ॥ ७. १. १९६ ॥ श्राद्धशब्दात्प्रथमान्तादद्यभुक्तमित्येवमुपाधिकादनेनेति तृतीयार्थे कर्तरि इक इन् इत्येतौ प्रत्ययौ भवतः, श्राद्धशब्दः कर्मनामधेयं तत्साधने द्रव्ये वतित्वा प्रत्ययमुत्पादयति । श्राद्धमनेनाद्य भुक्तं श्राद्धिकः, श्राद्धी । अधग्रहणादद्य भुक्ते श्राद्धे वः श्राद्धिकः श्राद्धी इति न भवति । भुक्तमिति किम् ? श्राद्धमनेनाद्य कृतम् ।१६९। अनुपद्यन्वेष्टा ॥ ७ १. १७० ॥ अनुपदीति इन्नतं निपात्यते अन्वेष्टा चेत्प्रत्ययार्थो भवति, अनुपदमन्वेष्टा अनुपदी उष्ट्राणाम् । अनुपदी गवाम् ।१७० | दाण्डा जिनिकायःशूलिकपार्श्वकम् ॥ ७ ११७१ ॥ crosoft निकाय: शूलिकशब्दौ इकण्प्रत्ययान्तो पार्श्व कशब्दा कप्रत्य - यान्ता निपात्यते अन्वेष्टा चेत्प्रत्ययार्थो भवति । दण्डाजिनं दम्भः तेनान्वेष्टा दाण्डाजिनिकः, यो मिथ्याव्रती पर प्रसादार्थ
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy