________________
[ पाद १. सू. १७२-१७४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२४९ दण्डाजिनमुपादायार्थानन्विच्छति स दाम्भिक उच्यते । निपातनं रूढयथं तेन शैवभागवतादौ न भवति । आयःलिक इति, तीक्ष्ण उपायोऽयःशूलसाम्यादयःशूलम् तेनान्वेष्टा आयःशूलिकः, यो मृदुनोपायेनान्वेष्टव्यानर्थान्तीक्ष्णोपायेनान्विच्छति राभसिकः स एवमुच्यते । केचिद्दण्डाजिनायःशूलाभ्यामिकमेवाहुः तन्मते दण्डाजिनिकः दण्डाजिनिका अयःशूलिकः अयःशूलिका । पार्श्वक इति पार्श्व मनजुरुपायः लञ्चादिः तेनान्वेष्टा पार्श्व कः ।ऋजुनोपायेनान्वेष्टव्यानर्थाननृजुनोपायेन योऽन्विच्छति स पार्श्वक उच्यते, यस्तु राज्ञः पाश्वेनार्थानविच्छति स राजपुरुषस्तत्र न भवति ।१७१।
क्षेत्रेऽन्यस्मिन्नाश्य इयः ॥ ७. १. १७२ ॥ क्षेत्रशब्दान्निर्देशादेव सप्तम्यन्तादन्योपाधिकान्नाश्येऽर्थे इयः प्रत्ययो भवति ।
अन्यस्मिन् क्षेत्रे नाश्यः क्षेत्रियो व्याधिः, क्षेत्र शरीरम् । अन्यदिति जन्मान्त रशरीरमुच्यते । तत्र नाश्यो नेहेत्यसाध्यो व्याधिरुच्यते । क्षेत्रिय विषम् । तद्धि स्वशरीरादन्यस्मिन्परशरीरे संक्रमय्य किंचिन्नास्यं चिकित्स्यं भवति । क्षेत्रियाणि तृणानि, तानि हि सस्यक्षेत्रेऽन्यस्मिन्नुत्पन्नानि नाश्यान्युत्पाद्यानि भवन्ति । क्षेत्रियः पारदारिकः, स हि स्वक्षेत्रादन्यस्मिन् क्षेत्रे परदारेषु प्रवर्तमानस्तत्र नाश्यो निग्राह्यो भवति । दाराः क्षेत्रम् ।१७२। छन्दोऽधीते श्रोत्रश्च वा ।। ७. १. १७३ ॥
छन्दसशब्दान्निर्देशादेव द्वितीयान्तादधीत इत्यस्मिन्नर्थे इयः प्रत्ययो वा भवति तत्संनियोगे च छन्दस्शब्दस्य श्रोत्रभावः । छन्दोऽधीते श्रोत्रियः, पक्षेऽण् छान्दसः ।१७३। इन्द्रियम् ।। ७. १. १७४ ॥
इन्द्रियमितीन्द्रशब्दादियप्रत्ययो निपात्यते, निपातनं रूढयर्थ, तेन यथायोगमर्थकल्पना। इन्द्र आत्मा इन्द्रस्य लिङ्गमिन्द्रियम् चक्षुराच्यते तेन हि करणेनात्मानुमीयते नाकर्तृकं करणमिति । इन्द्रेण दृष्टमिन्द्रियम्, आत्मा हि चक्षुरादीनि दृष्ट्वा स्वविषये नियुङ्क्ते, इन्द्रेण सृष्टमिन्द्रियम् । आत्मकृतेन हि शुभाशुभेन कर्मणा तथाविधविषयोपभोगायास्य चक्षरादीनि भवन्ति । इन्द्रेण जुष्टमिन्द्रियम्, तद्द्वारेणास्य विज्ञानोत्पादात् । इन्द्रेण दत्तमिन्द्रियम्, विषयग्रहणाय विषयेभ्य: समर्पणात् । इन्द्रस्यावरणक्षयोपशमसाधनमिन्द्रियम्, एवं सति संभवेऽन्यापि व्युत्पत्तिः कर्तव्या ।१७४।