SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ • पाद. १. सू. १६२-१६७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः । २४७ इयतां पूरणः इयतिथः, इयतीनां पुरणी इयतिथी, कियत्तियः, कियतिथी, यावतिथः, यावतिथी, तावतिथः, तावतिथी, एतावतिथः, एतावतिथी ।१६१॥ षट्कतिकतिपयात्थट् ॥ ७. १. १६२ ॥ . षट् कति कतिपय इत्येतेभ्यः संख्यापूरणे थट् प्रत्ययो भवति स च पित् । षण्णां पूरणः षष्ठः षष्ठी, कतीनां पूरणः कतिथः, कतिथी, कतिपयथः, कतिपयानां स्त्रीणां पूरणी कतिपयथी । 'षष्ठी वानादरे' (२-२-१०८) 'चतुर्थी' (२-२-५३) · इति च निर्देशात्थटि 'नाम सिदयव्यञ्जने' (१-१-२१) इति पदत्वं न भवति ।१६२॥ चतुरः ।। ७. १. १६३ ॥ ___ चतुर् इत्येतस्मात्संख्यापूरणे थट् प्रत्ययो भवति 1 ' चतुर्णां पूरणः चतुर्थः । चतसृणां पूरणी चतुर्थी । योगविभाग - उत्तरार्थः ११६३। येयो चलुक च ॥ ७. १. १६४ ॥ चतुर् इत्येतस्मात्संख्यापूरणे य ईय इत्येतो प्रत्ययौ भवतः च इत्येतस्य लुक् च भवति । चतुएँ पूरणः तुर्यः तुरीयः, तुर्या तुरीया। एवं च त्रैरूप्यं भवति ।१६४। देस्तीयः ।। ७. १. १६५ ॥ दिशब्दात्संख्यापूरणे तीयः प्रत्ययो भवति । द्वयोः पूरणः द्वितीयः द्वितीया ॥१६॥ त्रेस्तु च ॥ ७. १. १६६ ॥ त्रि इत्येतस्मात्संख्यापूरभे तीयः प्रत्ययो भवति, तत्संनियोगे च श्रेस्तृ इत्ययमादेशो भवति । त्रयाणां पूरणः तृतीयः, तिसृणां पूरणी तृतीया ॥१६६॥ पूर्वमनेन सादेश्चेन् । ७. १. १६७ ॥ पूर्वमिति क्रियाविशेषणान्निर्देशादेव द्वितीयान्तारकेबलात्सादेः सपूर्वाच्चानेनेति तृतीयार्थे कर्तरि इन् प्रत्ययो भवति । केवलात्-पूर्वमनेन पूर्वी, पूर्विणो, पूर्विणः । अनेनेति कर्तृपदं,-कर्ता च कियामन्तरेण न भवतीति कृतं भुक्त पीतं चेति कांचित्कियामपेक्षते । विशे
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy