SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २४६ बृहद्वृत्ति-लघुन्याससवलिते [पाद. १ सू० १५७-१६१ ] ___विशते पूरण: विंशतितमः, विंशः, विंशतितमी, विशी स्त्री, एकविंशतितमः। एकविंशः, द्वाविंशतितमः, द्वाविंशः, एकान्नत्रिशत्तम, एकान्नत्रिंशः, त्रिशत्तमः, त्रिशः, चत्वारिंशतमः, चत्वारिंशः, द्वाचत्वारिंशतमः द्वाचत्वारिंशः, पञ्चाशत्तमः, पश्चाशः, अष्टपञ्चाशत्तमः, अष्टपञ्चाशः ।१५६॥ शतादिमासाधेमाससंवत्सरात् ॥ ७. १. १५७ ॥ शतादिभ्यः संख्याशब्देभ्यो मास अर्धमास संवत्सर इत्येतेभ्यश्च संख्यापूरणे तमट् प्रत्ययो भवति । शतस्य पूरणः शततमः, शततमी, एकशततमः, सहस्रतमः, लक्षतमः, मासस्य पूरणो मासतमो दिवसः, अर्घमासतमः, संवत्सरतमः । षष्ठयादेरित्येक सिद्धे शतादिग्रहणं संख्याद्यर्थम् ।१५७। षष्टयादेस्संख्यादेः ।। ७. १.१५८॥ संख्या आदिरवयवों यस्य स संख्यादिः, ततोऽन्यस्मात् षष्ठयादेः षष्टिप्रभृतिभ्यः संख्याशब्देभ्यः संख्यापूरणे तमट् प्रत्ययो भवति, विकल्पापवादः । षष्ठः पूरणः षष्टितमः, सप्ततितमः, अशीतितमः, नवतितमः । असंख्यादेरिति किम् ? एकषष्टितमः, एकषष्टः, एकसप्ततितमः, एकसप्ततः। विंशत्यादेरिति क्किल्प एव ।१५८। नो मट् ॥ ७. १. १५९ ।। ___ असंख्यादेः संख्याशब्दान्नकारान्तात्संख्यापूरणे मट् प्रत्ययो भवति, डेटोऽपवादः । पञ्चानां पूरणः पञ्चमः, पञ्चमी, सप्तमः, अष्टमः, नवमः, दशमः । न इति किम् ? विशः । असंख्यादेरित्येव ? एकादशः, द्वादशः ।१५९। पित्तिथट् बहुगणपूगसंघात् ॥ ७. १. १६०॥ बहुगणपूगसंघ इत्येतेभ्यः संख्यापूरणे तिथट् प्रत्ययो भवति स च पित् । बहुनां पूरणः बहुतिथः, बह्वीनां पूरणी बहुतिथी, गणतिथः, गणतिथी, पृगतिथः, पूगतिथी, संघतिथः, संघतिथी। संख्याविशेषणं संभवापेक्षम् । पित्करणं पुवद्भावार्थम्, टकारो ङयर्थः ।१६०। अतोरिथट् ॥ ७. १. १६१ ॥ अत्वन्तात्संख्याशब्दात्संख्यापूरणे इथट् प्रत्ययो भवति स च पित, ' डटोऽपवादः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy