________________
[ पाद. १. सू. १५५ - १५६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २४५ शतानां सह विशं शतसहस्रम् त्रिंशम् एकादशम्, एवं सहस्राणामपि शते भवति । विशतिः सहस्राण्यधिकान्यस्मिन्सहस्राणां शते विंशं शतसहस्रम् त्रिशम्, एकादशम् । राजदन्तादिषु पाठाच्छतशब्दस्य पूर्वनिपातः ।
अधिकमिति किम् ? विंशतिः त्रिंशत् एकादश वा ऊना अस्मिन् शते । तत्संख्यमिति किम् ? विंशतिर्दण्डा अधिका अस्मिन् योजनशते, त्रिशरणा अधिका अस्मिन् कार्षापणसहस्रे, एकादश माषा अधिका अस्मिन् कार्षापणशते । अस्मिन्निति किम् ? विंशतिरधिकास्माच्छतात् । शतसहस्र इति किम् ? एकादशाधिका अस्यां त्रिशति । शतिशद्दशान्ताया इति किम् ? षडधिका अस्मिन् शते, दशाधिका अस्मिन्सहस्रे । व्यपदेशिवद्भावाद्दशान्तत्वे सन्नित्येव क्रियते न तु दशन्निति । संख्याया इत्येव ? गोविंशतिः अधिका अस्मिन् गोशते, न गोविंशतिशब्द एकविंशत्यादिवत्संख्याशब्दः । १५४ ॥
न्या० स० अधि० – ननु दशान्तशतिशत इत्युक्तेऽपि शतिशतोः प्रत्ययत्वात् प्रत्ययग्रहणपरिभाषया तदन्तप्रतिपत्तिर्भविष्यति कि तयोरन्तरसंबन्धनेन !
सत्यं, अन्तग्रहणाभावे विंशतित्रिंशदादेरेव स्यात्, न त्वेकविशत्येक त्रिंशदादेः, अन्तग्रहणे तु यावतः शतिशच्छब्दावन्तौ स्तस्तावतो ग्रहणं सिद्धम् । भवत्येवं तथापि संख्यानुवृत्तेः संख्याशब्दादुच्यमानः प्रत्ययः संख्या समुदायादेकविंशत्यादेर्न स्यात् इत्याशङ्क्याह — संख्यासमुदायोपीत्यादि एकविंशत्यादेः समुदायस्य लोके पृथक् संख्यात्वेन रूढत्वादिति भावः ।
6
पूर्वनिपात इति सहस्राणां शतमिति कृते षष्ठ्चायत्ना० १ ३-१-७६ इति समासे प्रथमोक्तत्वात् सहस्रस्य पूर्वनिपाते प्राप्ते ।
ऊना अस्मिन् शते इति योजनेष्वित्याध्याहार्यमन्यथा तत्संख्यत्वं न स्यात् ।
संख्यापूरणे डट् ।। ७. १. १५५ ।।
संख्या पूर्यते येन तत्संख्यापूरणम्, संख्याया इति वर्तते । संख्याशब्दात्संख्यापूरणेऽभिधेये डट् प्रत्ययो भवति, अत्र सामर्थ्यात् षष्ठयन्तात्प्रत्ययो विज्ञायते, अत एव तदिति निवृत्तम् ।
एकादशानां पूरण: एकादशः, एकादश संख्यापूरण इत्यर्थः । एवं द्वादशः, त्रयोदशः, चतुर्दशः, एकादशी स्त्री । संख्याग्रहणं किम् ? एकादशानामुष्ट्रिकाणां पूरणो घटः । एकस्य तु पूरणाभावान्न ग्रहणम्, यादेरित्यनुवृत्तेर्वा । १५५।
विंशत्या देव तमट् ॥७. १. १५६ ।।
विशत्येवमादिकायाः संख्यायाः संख्यापूरणे तमद् प्रत्ययो वा भवति,
पक्ष डट ।