________________
२४४ ]
बृहद्वृत्ति- लघुन्यास संत्र लि
[ पाद. १ सू. १५४ ]
व्यादे: संख्याशब्दाद्गुणवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठ्यर्थे मयट् प्रत्ययो भवति स चेत् षष्ठयर्थो मूल्यं क्रेयं वा भवति । द्वौ गुणावेषां मूल्यभूतानां वानामुदश्वितः द्विभया यवा उदश्वितो मूल्यम् । त्रिमयाः, चतुर्मयाः । द्वौ गुणावस्योदश्वितः क्रेयभूतस्य द्विमयमुदश्विद्यवानाम् क्रेयम्, त्रिमयम्, चतुर्मयम् । व्यादेरिति किम् ? एकगुणा यवा उदश्वितो मूल्यम् एकगुणमुदश्विद्यवानाम् यम् । गुणादिति किम् ? उदश्वितस्त्रयाणां भागानां द्वो भागौ यवानां मूल्यभूतानाम् । यवानां त्रयाणां भागनां द्वौ भागौ उदश्वितः यस्य । द्वौ गुणाविति क्रेयं मूल्यं चैकगुणं कृत्वा तदपेक्षया मूल्य क्रेययोद्विस्तावत्तोच्यते । मूल्यत्रेय इति किम् ? द्विगुणं क्षीरं तैलस्य
पाक्यस्य । १५३।
न्या० स० द्वयादे० – मूल्ये क्रेये वेति यदा मूल्ये संख्याशब्दस्तदा केयः प्रत्ययार्थः, क्रेये तु मूल्यं प्रत्ययार्थः ।
प्रत्ययार्थविशेषणमिति पूर्व तु प्रकृति विशेषणम् । गुणादिति किम्-भागादिति क्रियतामित्यर्थः । द्वौ भागौ यवानामिति यत्र साक्षात् गुणः प्रयुज्यते तत्र भवतीति भागशब्दप्रयोगे माभूदित्यर्थः ।
अधिकं तत्संख्यमस्मिन् शतसहस्रे शतिशद्दशान्ताया डः
।। ७. १. १५४ ॥
संख्याया इति वर्तते तदिति च तदिति प्रथमान्तात् शतिशद्दान् इत्येवमन्तात्संख्याशब्दादस्मिन् इति सप्तम्यर्थे शते सहस्रे च डः प्रत्ययो भवति यत्तत् प्रथमान्तं तच्चेदधिकं तत्संख्यं च भवति सा शतसहस्रलक्षणा संख्या यस्य योजनादेस्तत्तत्संख्यं शतं सहस्रमिति च यत्संख्यायते तदेव यद्यधिकमपि भवतीत्यर्थः ।
योजनानां विंशतिर्योजनानि वा विंशतिरधिका स्मिन्योजनशते शते वा योजनेषु विशं योजनशतम् विशं शतं योजनानि, एवं विशं योजनसहस्रम् विंशं सहस्रं योजनानि विंशं कार्षापणशतम् विशं शतं कार्षापणानि, विशं कार्षापणसहस्रम् विंशं सहस्रं कार्षापणानि । संख्यासमुदायोऽपि संख्यैव संख्यायतेऽनयेति कृत्वेत्वत्रापि भवति । एकविंशति एकविंशम् द्वाविंशं शतम्, शत्, त्रिशं शतं त्रिशं सहस्रम् एकत्रिंशम्, चत्वारिंशम्, पञ्चाशम्, दशन्, एकादशं शतम्, एकादशं सहस्रम् द्वादशम् त्रयोदशम् शतं सहस्रम् वा, योजनादीनामिव शतानामपि सहस्रे भवति । विंशतिः शतान्यधिकान्यस्मिन्