________________
[ पाद. १. सू. १४५-१४८] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२४१
अन्ये तु रूढप्रमाणान्तादेव द्विगोरिच्छन्ति तन्मते द्विप्रस्थमात्रम् द्विपलमात्रं द्विशतमात्रं स्यादित्यादौ लुप् न भवति ।१४४॥
न्या० स० द्विगो:०-उपचरितप्रमाणादिति पुरुषशब्दस्य हि प्रमाणत्वमुपचरितमेव न साक्षात् प्रमाणमेव । लुप् स्यादिति तदभावे च ङीन स्यात् ।
द्विशम इति ‘मात्रट्' ७-१-१४५ इति मात्रद संशयविवक्षायां सर्वत्र, अन्यत्र यथासंभवं मात्रट् दध्नद द्वथसद् च, एवं सर्वत्र । द्विपुरुषीति अत्र 'हस्तिपुरुषाद्वाऽण' ७-१-१४१, न, तत्र तदन्तविधेरनाश्रयणादिति मात्रडादेर्लुप् । मात्रद ॥ ७.१.१४५ ॥
मानात् संशये इति च वर्तते, तदिति प्रथमान्तान्मानवाचिनो नाम्नः षष्ठचर्थे मात्र प्रत्ययो भवति संशये । प्रस्थो मानमस्य स्यात् प्रस्थमात्रम् धान्यम्, प्रस्थमात्रा वीहयः, कुडवमात्रम्, पलमात्रम्, कर्षमात्रम्, पञ्चमात्राः, शतमात्राः, शतमात्रम्, दिष्टिमात्रम् । मात्रदघ्नद्वयसानि नामान्यपि सन्ति । अनुबन्धासजनाथं तु प्रत्यय विधानम्, तेन च स्त्रियां विशेषः। वैश्वदेवमात्रा भिक्षा ।१४५। . न्या० स० मात्रद-वैश्वदेवमात्रेति विश्वे देवा देवता अस्याण् वैश्वदेवो मात्रं मात्राऽवास्याः । शनशदिशतेः ॥ ७. १. १४६ ॥
शन्नन्ताच्छदन्ताच्च संख्याशब्दाद्विशतिशब्दाच्च मानवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठयर्थे संशये गम्यमाने मात्रट् प्रत्ययो भवति, डिनोऽपवादः । दश मानमेषां स्यात् दशमात्राः, पञ्चदशमात्राः, त्रिंशन्मात्राः, त्रयस्त्रिशन्मात्राः विंशतिमात्राः ।१४६। डिन ।। ७. १. १४७ ।।
संशये इति निवृत्तम्, योगविभागात् । शन्नन्ताच्छदन्ताच्च संख्याशब्दाद्विंशतिशब्दाच्च मानवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठपर्थे डिन् प्रत्ययो भवति । पञ्चदशाहोरात्राः परिमाणमस्य पञ्चदशी अर्धमासः, पञ्चदशिनौ, पञ्चदशिनः, एवं त्रिशी त्रिशिनौ त्रिशनो मासाः । त्रयस्त्रिंशिनो देवविशेषाः, विशिनो भवनेन्द्राः ।१४७। न्या० स० डिन्०-योगविभागादिति अन्यथा शनशद्विशतेर्डिन्वेत्येक एव योगः क्रियेत । इदंकिमोऽतुरिय किय् चास्य ॥७. १. १४८ ॥ तदस्य मानादिति वर्तते, तदिति प्रथमान्तादिदंशब्दात् किंशब्दाच्च