________________
२४२ ] बृहवृत्ति-लघुन्याससंवलिते [ पाद. १ सू० १४९-१५१ ] मानवृत्तेरस्येति षष्ठयर्थे मेयेऽतुः प्रत्ययो भवति तत्संनियोगे च इदकिम्शब्दयोरिय किय् इत्येतावादेशो भवतः । चतुर्विध मानं, तत्र प्रमाणात्, इदं मानमस्य इयान् पटः । किं मानमस्य कियान् पटः । परिमाणात्, इयद्धान्यम्, कियद्धान्यम्, उन्मानात्, इयत्सुवर्णम्, कियत्सुवर्णम्, संख्यायाः, इयन्तो गुणिनः। कियन्तो गुणिनः इयती, कियती। उदित्करणं दीर्घत्वाद्यर्थम् ॥१४८॥ __न्या० स० इदंकिमो०-दीर्घत्वाद्यर्थमिति आदिशब्दात् 'ऋदुदितः' १-४-७० इति नागमः, 'अधातूदृदितः' २-४-२ इति लीश्च गृह्यते । यत्तदेतदो डावादिः ॥ ७. १. १४९ ॥
यत्तदेतदित्येतेभ्यस्तदिति प्रथमान्तेभ्यो मानवृत्तिभ्योऽस्येति षष्ठयथें . मेयेऽतुः प्रत्ययो भवति स च डावादिः। यत्तदेतद्वा प्रमाणमस्य यावान् पटः, तावान्, एतावान्, यावत्, तावत्, एतावत्, धान्यम्, यावत्, तावत्, एतावत्, सुवर्णम् । यावन्ति तावन्ति एतावन्ति अधिकरणानि । यावती तावती एतावती। ननु मात्रडादयोऽपि दृश्यन्ते इदं प्रमाण मस्य इदंमात्रं किमात्रम् यन्मात्रम् तन्मात्रम् एतन्मात्रम् यद्दघ्नम् यद्वयसमित्यादि ? सत्यम्, स्वविषये मानविशेषे प्रमाणे मात्रटादयो भवन्त्येव मानसामान्येऽतुरेवेति विभागः ।१४९।
न्या० स० यत्तदे०-नन्विति मानवाचिनोऽतावुच्यमाने कथं मात्रडादय इत्याशङ्का । यत्तत्किमः संख्याया डतिर्वा ॥ ७. १. १५०॥
संख्यारूपं यन्मानं तवृत्तिभ्यो यत्तत्किम् इत्येतेभ्यः प्रथमान्तेभ्योऽस्येति षष्ठयर्थे संख्येये मेये डतिः प्रत्ययो भवति वा पक्षे यथाविहितोऽतुश्च । या संख्या मानमेषां यति यावन्तः, सा संख्या मानमेषां तति तावन्तः, का संख्या मानमेषां कति कियन्तः । एतौ चातुडति प्रत्ययौ स्वभावाद्वहुवचनविषयावेव भवतः । संख्याया इति किम् ? क्रियान् यावान् तावान् पटः । मानादिति संख्याया विशेषणं किम् ? . क्षेपे माभूत्, का संख्या येषां दशानाम् ।१५०॥
न्या० स० यत्तत्-एतौ चेति अनेन संख्यावृत्तिभ्यो विहितो मानवृत्तेस्तु 'इदं किमोतु' ७-१-१४८ इत्यादिना एकत्वादावपि । अवयवात्तयत् ।। ७. १. १५१ ॥
तदस्येति संख्याया इति च वर्तते, मानादिति निवृत्तम्, अवयवादिति विशेषणान्तरापादानात्, अवयवे वर्तमानात्संख्यावाचिनो नाम्नस्तदिति प्रथमा