SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २४० ] बृहद्वृत्ति-लघुन्याससंवलिते वो दद्यसद् ।। ७. १. १४२ ।। ऊर्ध्वं यत्प्रमाणं तद्वाचिनो नाम्नः प्रथमान्तादस्येति षष्ठ्यर्थे दघ्नट् द्वयसट् इत्येतौ प्रत्ययो वा भवतः पक्षे मात्रट् । ऊरुः प्रमाणमस्य उरुदघ्नम् ऊरुद्वयसम् ऊरुमात्रमुदकम्, उरुदघ्नी ऊरुद्वयसी ऊहमात्री खाता, तद्दघ्नी तद्वयसी तन्मात्री, तावद्दघ्नी तावद्द्द्वयसी तावन्मात्री, वाग्रहणमण्मात्रटोरबाधनार्थम्, तेन पुरुषदघ्नम् पुरुषद्रयसम् पुरुषमात्रम् पौरुषमिति पुरुषहस्तिनोश्वातूरूप्यं भवति । ऊर्ध्वमिति किम् ? रज्जुमात्री भूमिः । १४२ | न्या० स० वोर्ध्व० - वा ग्रहणमिति अन्यथा ऊर्ध्वमानाभावेऽणुमात्रौ सावकाशाविति तौ after said स्याताम् । [ पाद. १ सू० १४२-१४४ । मानादसंशये लुप् । ७. १. १४३ ।। प्रमाणादिति वर्तते, मानवाच्येव साक्षाद्यः प्रमाणशब्दो हस्तवितस्त्यादि: प्रसिद्धो न तु रज्ज्वादिर्यो लक्षणया प्रमाणे वर्तते तस्मात्प्रस्तुतस्य मात्रडादे: प्रत्ययस्यासंशये गम्यमाने लुब् भवति । हस्तः प्रमाणमस्य हस्तः, वितस्तिः, दिष्टिः । शमः चतुर्विंशतिरङ्गुलानि । मानादिति किम् ? ऊरुमात्रमुदकंम्, रज्जुमात्री भूमिः । असंशय इति किम् ? शमः प्रमाणमस्य स्यात् शममात्रम्, दिष्टिमात्रम्, त्रितस्तिमात्रम् । केचित्तु मानमात्रान्मात्रढं तस्यासंशये लुब्विकल्पं चेच्छन्ति । प्रस्थः प्रस्थमात्रो वा व्रीहिः । हस्तः हस्तमात्रं वा काष्ठम्, पल पलमात्रं वा सुवर्णम्, शतं शतमात्रा वा गावः । १४३ | न्या० स० माना० - मानवाच्येवेति प्रमाणादित्यधिकारे मानग्रहणमवधारणार्थमिति । द्विगोः संशये च ॥ ७ १- १४४ ।। , मानादिति वर्तते, प्रमाणादिति निवृत्तम् ' पुरुषाद्वा ' - ( २ - ४ - २५ ) इत्यत्र उपचरितप्रमाणात्पुरुषात्लुपि ङीविधानात् । तदनुवृत्तौ तु तस्य मानेन विशेषणात् प्रसिद्धादेव हस्तादेः लुप् स्यात् । मानान्ताद्विगोः संशये चकारादसंशये च प्रस्तुतस्य मात्रडादेः प्रत्ययस्य लुप् भवति । द्वौ शमो प्रमाणमस्य द्वौ शमौ प्रमाणमस्य स्यादिति वा द्विशमः, द्विदिष्टिः, द्विवितस्तिः, द्विकाण्डा क्षेत्रभक्तिः, द्विकाण्डी रज्जुः, द्विपुरुषी खाता, द्विहस्तिनी, त्रिहस्तिनी, द्वौ प्रस्थो मानमस्य स्यात् द्वित्रस्थः, द्विपलम्, द्विशतः । मीयतेऽनेन मानं प्रमाणम् परिमाणम् उन्मानं संख्या चेह गृह्यते । ' ऊर्ध्वमानं किलोत्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाण स्यात्संख्या बाह्या तु सर्वतः ' ॥१॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy