SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २२४] बृहद्वृत्ति-लघुन्याससंवलिते [ पा० १. सू० ७१-७३ । परम पौरुषं मा भूदिति ततश्च परमस्य पुरुषस्य भाव इति वाक्ये 'सन्महत्' ३-१-१०७ इत्यादिना समासविषयो यतो भावपदापेक्षया षष्ठी ततः सामानाधिकरण्यं इति 'सन्महत्' ३-१-१०७ इति प्राप्तिः, ततस्त्वे समानीते सति पुरुषत्वं एवंविधेन शब्देन सह परमशब्दस्य समासः, 'षष्ठ्ययत्नाच्छेषे' ३-१-७६ इत्यनेनैव परमस्यैवंविधस्य पुरुषत्वेन शब्देन सह समासो न भवति, 'सन्महत्' ३-१-१०७ इति सूत्रेण विशेषणविशेष्याभावात्, विशेषणविशेष्यत्वं च समानाधिकरण्ये सति संभवति, अत्र पुरुषत्वं परमस्येति वैयधिकरण्यं, अतः 'षष्ठ्ययत्ना' ३-१-७६ इत्यनेनैव समास इति प्रकारद्वयेनापि समासविषयो भवति । __अत एवेति ननु समासे चिकीर्षिते पुरुषहृदयशब्दौ पदान्तरापेक्षौ भवतस्तत्र सापेक्षत्वादेव न भविष्यति किं प्रतिषेधेन ? इत्याह-सापेक्षत्वादपीत्यादि । श्रोत्रियाद्यलुक् च ॥७. १.७१ ॥ श्रोत्रियशब्दात्तस्य भावे कर्मणि चाण प्रत्ययो भवति तत्संनियोगे च य इत्यस्य लोपो भवति त्वतलौ च । श्रोत्रियस्य भावः कर्म वा श्रौत्रम्, श्रोत्रियत्वं श्रोत्रियता, चौरादिपाठादकअपि श्रोत्रियकम् ।७१। योपान्त्यादुरूपोत्तमादसुप्रख्यादकञ् ॥ ७. १. ७२ ॥ त्रिप्रभृतीनामन्त्यमुत्तमम् तत्समीपमुपोत्तमम्, उपोत्तमं गुरुर्यस्य तस्मात् यकारोपात्यात् सुप्रख्यवर्जितात् तस्य भावे कर्मणि चाकञ् प्रत्ययो भवति स्वतलौ च । रमणीयस्य भावः कर्म वा रामणीयकम्, रमणीयत्वम् रमणीयता, दार्शनीयकम्, कामनीयकम्, औपाध्यायकम् पानीयकम् । गुरुग्रहणादनेकव्यञ्जनव्यधाने ऽपि भवति । आचार्यकम्, गुरुग्रहणं हि दीर्घपरिग्रहार्थ संयोगपरपरिग्रहार्थ च, अन्यथा दीर्घोपोत्तमादित्युच्येत । योपान्त्यादिति किम् ? कापोतं, विमानत्वम् । गुरूपोत्तमादिति किम् ? क्षत्रियत्वम्, कायत्वम् । असुप्रख्यादिति किम् ? सुप्रख्यत्वम् । गुणाङ्गत्वात् टथणपि, सौप्रख्यम् ॥७२॥ न्या० स० योपा.-गुरुपोत्तम इत्यत्र 'विशेषणसर्वादि' ३-१-१५० इति गरोः पूर्वनिपातः संयोगपरेति-संयोगे गुरुरित्यर्थः, तेनाचार्यकमित्यादावनेकव्यञ्जनव्यधानेऽपि । क्षत्रियत्वम्, कायत्वम्-प्रथमे गुरुनास्ति द्वितीये तु उपोत्तमत्वं नास्ति । चौरादेः ॥ ७. १. ७३ ॥ चौरादिभ्यस्तस्य भावे कर्मणि चाकञ् प्रत्ययो भवति त्वतलौ च । चौरस्य भावः कर्म वा चौरिका चौरकम्, धौतिका धौर्तकम्, मानोज्ञकम, प्रेयरूपकम्, चौरत्वम्, चौरता। चौर, धूर्त, युवन्, ग्रामपुत्र, ग्रामसण्ड, ग्रामसाण्ड, ग्रामकुमार, ग्रामकुल,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy