________________
श्री सिद्ध हेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २२३
[ पाद. १. सू. ६९-७० ]
खूवर्णालघ्वादेः ॥ ७. १. ६९ ॥
लघुरादिर्यस्येवर्णो वर्णवर्णस्य तदन्तान्नान्नस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलौ च । शुचेर्भावः कर्म वा शौचम्, शुचित्वं शुचिता, शकुनेः, शाकुनम्, मुनेर्भावः कर्म वा मौनम्, संमत्तेः साम्मतम्, कवेर्भावः कर्म वा काव्यमिति तु राजादिपाठात्, नखरजन्या नाखरजनम्, हरीतक्या हारीतकम्, तितउनस्तैतवम् । पृथोः पार्थवम्, पटो: पाटवम्, लघोर्लाघवम्, वध्वा वाधवम्, पितुः पैत्रम्, आदिग्रहणं समीपमात्रार्थम्, तेन तितउ इत्यत्रा व्यवहिते शुच्यादी चक्रवर्णव्यवहिते लघुनि भवति । खूवर्णादिति किम् ? घटत्वं पटत्वम् । लघ्वादेरिति किम् ? पाण्डुत्वं कण्डूत्वम् । केचित्तु कृशानोर्भावः कर्म वा काशनवम् अरत्नेरारत्नम् अरातेरारातम् इत्यादिष्वपीच्छन्ति, तन्मतसंग्रहार्थं लघ्वादेरिति प्रकृतेविशेषणम् न य्वृवर्णस्येति व्याख्येयम्, तन्मते साम्मतमित्ति न भवति । ६९ ।
पुरुषहृदयादसमासे ॥ ७ १. ७० ॥
पुरुषहृदय इत्येताभ्यां तस्य भावे कर्मणि चाण् भवति त्वतलौ च असमासे न चेदनयोः समासो विषयभूतो भवति । पुरुषस्य भावः कर्म वा पौरुषम् पुरुषत्वं पुरुषता, हृदयस्य भावः कर्म वा हार्दम्, 'हृदयस्य हृल्लासलेखाण्ये' (३-२-९४ ) इति हृद्भाव:, हृदयत्वम् हृदयता । असमास इति किम् ? परमपुरुषत्वम् परमहृदयत्वम् सत्पुरुषत्वम् सौहृदय्यम् । परमपौरुषम् परमहार्दम् इत्यादि मा भूत् । अत एव निषेधात् सापेक्षादपि भावप्रत्ययो विज्ञायते, तेन काकस्य कार्ण्यम् बलाकाया: शौक्त्यम् इत्यादि सिद्धम् । पौरुषमिति प्राणिजात्यत्रापि सिद्धम्, समासविषये प्रतिषेधार्थं पुरुषोपादानम् ॥७०॥
न्या० स० पुरु०—असमास इति प्रसज्य प्रतिषेधः न पर्युदासः, तत्र हि समासादन्यत्र कस्यचिद्वृत्तौ स्यात् बहुहृदयो बहुपुरुष इत्ति इह न स्यात् ।
पौरुषम, हार्दम, असमास इति च विषयसप्तमीयं न सत्सप्तमी, अस्यां हि ग्रहणवता नाम्ना इति न्यायेन केवलाभ्यामेवाण उक्तत्वात् परमश्चासौ पुरुषश्च परमपुरुषादेः प्राप्तिरेव नास्ति, अतो विषयप्रहणात् समासार्वागवस्थायां परमस्य पुरुषस्य भाव इत्येवंविधायां प्रत्ययः प्रकृत्यादेरिति परिभाषया परमपौरुषमिति स्यात् ।
ननु परमं च तत् पौरुषं चेति कृते परमपौरुषमिति भवति वा नवा !
उच्यते, सादृश्यत्वान्न भवति, एवं हि कृते परमस्य पुरुषस्य भावः परमं च तत्पौरुषं चेति वा कृतमिति विशेषो न ज्ञायते ।