________________
२२२ ] बृहद्वृत्ति-लघुन्याससंलिते [पाद. १ सू० ६६-६८ } प्राणिजातिवयोर्थादा ॥ ७. १. ६६ ॥
प्राणिजातिवाचिनो क्योवचनाच्च तस्य भावे कर्मणि चाञ् प्रत्ययो भवति त्वतलौ च । अश्वस्य भावः कर्म वा आश्वम्, अश्वत्वम्, अश्वता, गार्दभम्, माहिषम्, द्वीपिनो द्वैपम, हस्तिनो हास्तम्, अनि 'नोऽपदस्य तद्धिते' (७-४-६१) इति अन्त्यस्वरादिलोपः । क्योऽर्थ-कुमारस्य भावः कर्म वा कौमारम्, कुमारत्वम्, कुमारता, कैशोरम्, शावम्, वार्करम, कालभम् । प्राणिग्रहणं किम् ? तृणत्वम्, तृणता । जातिग्रहणं किम् ? देवदतत्वम्, देवदत्तता ॥६६॥ युवादेरण ।। ७. १. ६७ ॥
युवाविभ्यः शब्देभ्यस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलौ च । यूनो लिङ्गविशिष्टस्यापि ग्रहणात् युवतेर्भावः कर्म वा यौवनम् युवत्व युवता, चौरादिपाठाद्यौवनिकेत्यपि भवति । स्थाविरम्, स्थविरत्वम्, स्थविरता।
युवन्, स्थविर, यजमान, कुतुक, श्रमण, श्रमणक, श्रवण, कमण्डलुक, कुस्त्री, दुःस्त्री, सुस्त्री, सुहृदय, दुहूं दय, सुहृत्, दुर्हत्, सुभ्रातृ, दुर्भ्रातृ, वृषल, परिव्राजक, सब्रह्मचारिन्, अनृशंस, चपल, कुशल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, उदातृ, उन्नेतृ, प्रशास्तृ, प्रतिहत, होत, पोत, भ्रातृ, भतृ , रथगणक, पत्तिगणक, सुष्ठु, दुष्ठ, अध्वर्यु, कर्तृ, मिथुन, कुलीन, सहस, 'सहस्र', कण्डुक कितव इति युवादिः ।
__ स्थविरश्रमणपिशुन निपुणकुशलचपल-अनुशंसेभ्यो राजादिदर्शनात टघणपि भवति । स्थाविर्यं श्रामण्यमित्यादि, पूर्वत्राणि द्वंपादि न सिध्यति । इह त्वजि यौवनादि इत्यत्रणोरुपादानम् ।६७।
न्या० स० युबा-सुहृदयदुई दशब्दयोरणि 'हृदयस्य ' ३-२-९४ इत्यादेशे 'हृद्भगं ७-४-२५ इत्युभयपदवृद्धो सौहार्द दौहार्दमिति, एवमुत्तरयोरपि, ततश्च एकतरद्वयोपादानेनैव सिद्धे यत् युगलद्वयोपादानं तदर्थभेदार्थम् । हायनान्तात् ॥ ७. १. ६८ ॥
हायनान्तेभ्यः शब्देभ्यस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलो च । द्वैहायनम्, द्विहायनत्वम्, द्विहायनता, त्रैहायनम्, चातुर्हायनम् । अत्रावयोवाचित्वात् 'चतुस्त्रेयिनस्य वयसि'-(२-३-७५) इति णत्वं न भवति, वयसि तु पूर्वेणाञ् । त्रैहायणम्, चातुर्हायणम् ।६८।