SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ [पाद. १. सू. ६१-६५ ] श्रीसिद्धाहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२२१ ___ आराधयेति आपूर्वाद्राधेः ण्यन्तादत एव निपातनात् शः एवमुत्तस्त्रयेऽपि । अनृशंसेति नन् शंसत्यण् , ततो नत्र योगः। चौक्षेति चुक्षा शील्मस्य ' अथा' ६-४-६० इत्यञ् । अर्हतस्तोन्त् च ।। ७. १. ६१ ॥ अर्हत्शब्दात् षष्ठचन्ताद्भावे कर्मणि चार्थे टयण प्रत्ययो भवति तत्संनियोगे च तकारस्य न्त् इत्यादेशो भवति, अरिहननात् रजोहननात् रहस्याभावाच्च अर्हन् पृषोदरादित्वात् । यद्वा, चतुस्त्रिशतमतिशयान् सुरेन्द्रादिकृतां पूजां वाहतीति अर्हन, तस्य भावः कर्म वा आर्हन्त्यम्, आईन्ती । प्राक्त्वादितित्वतलौ च अर्हत्त्वम्, अर्हत्ता १६१. सहायादा ।। ७. १.६२ ॥ सहायशब्दात्तस्य भावे कर्मणि च टचण प्रत्ययो वा भवति, वावचनात्पक्षे योपान्त्यलक्षणोऽकञ् । प्राक्त्वादिति स्वतलो च। सहायस्य भावः कर्म वा साहाय्यम्, साहायकम्, सहायत्वम्, सहायता ।६२। सखिवणिग्दूताद्यः । ७. १.६३॥ ___ सखिवणिजदूत इत्येतेभ्यस्तस्य भांचे कर्मणि च यः प्रत्ययो भवति प्राक्त्वादिति त्वतलौ च । सख्युर्भावः कर्म वा सख्यम् सखित्वम् सखिता, वणिज्या वणिज्यम् वणिक्त्वं वणिक्ता, दूत्यम् दूतत्वं दूतता, राजादिराकृतिगणत्वात् टयणपि । वाणिज्यम् दौत्यम् ।६३१ स्तेनान्नलुक् च ।। ७. १. ६४॥ . स्तेनशब्दात्तस्य भावे कर्मणि च यः प्रत्ययो भवति तत्संनियोगे च न इत्येतस्य लुग भवति, प्राक्त्वादिति त्वतलौ च । स्तेनस्य भावः कर्म घा स्तेयम्, स्तेनत्वम्, स्तेनता । राजादिदर्शनात् स्तैन्यमित्यपि भवति ।६४। कपिज्ञातेरेयण ॥ ७. १. ६५ ।।। कपि ज्ञाति इत्येताभ्यां तस्य भावे कर्मणि च एयण् प्रत्ययो भवति स्वतलौ च । कपेर्भावः कर्म वा कापेयम् कपित्वम्, कपिता, ज्ञातेयम, ज्ञातित्वम्, ज्ञातिता, कपेः इकारान्तस्वादणि प्राप्ते ज्ञातेश्व प्राणिजातित्वादबि प्राप्ते वचनम् ॥६५॥ न्या० स० कपि० इकारान्तत्वादिति यद्यपि कपिशब्दस्य प्राप्पिजातित्वं तथापि विशेषत्वात्। 'वृवर्ण' ७-१-६९ इत्यणि प्राप्ते ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy