________________
२२० ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद. १ सू. ६० ] ङयर्थः । अर्हतो भावः कर्म वा आर्हन्त्यम् ङी चेत् आर्हन्ती । एवमौचिती, यथाकामी, सामग्री, शैली, पारिख्याती, आनुपूर्वी ।
दृढ, वृढ, परिवृढ, कृश, भृश, चुक्र, शुक्र, आम्र, ताम्र, अम्ल, लवण, शीत, उष्ण, तृष्णा, जड, बधिर, मूक, मूर्ख, पण्डित, मधुर, वियात, विलात, विमनस्, विशारद, विमति, संमति, संमनस् इति दृढादिः । बहुवचनादाकृतिगणोऽयम् तेन स्थैर्यं स्थेमेत्याद्यपि सिद्धम् ॥५९॥
न्या० स० वर्ण० - ढिमेति अत्र मतान्तरेण रहवं, एतच्च 'पृथुमृदु' ७-४-३९ इत्यत्र कथयिष्यते ।
पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ॥ ७ १. ६० ॥
पत्यन्तेभ्यो राजान्तेभ्यो गुणाङ्गेभ्यो राजादिभ्यश्च तस्येति षष्ठयन्तेभ्यो भावे कर्मणि च क्रियायां टचण् प्रत्ययो भवति, प्राक्त्वादित्यधिकारात् त्वतलौ च । पत्यन्त, अधिपतेर्भावः कर्म वा आधिपत्यम्, अधिपतित्वम्, अधिपतिता । एवं नारपत्यम्, बार्हस्पत्यम्, प्राजापत्यम्, सैनापत्यम् । राजान्त - आधिराज्यम्, अधिराजत्वम्, अधिराजता, एवं सौराज्यम्, यौवराज्यम् गुणाङ्ग - द्रव्याश्रयी गुणः । गुणोऽङ्गं निमित्तं येषां प्रवृत्तौ ते गुणाङ्गाः गुणद्वारेण ये गुणिनि वर्तन्ते न तु गुणवचना एव । मौढ्यम् मूढत्वम् मूढता, मौखर्यम्, वैदुष्यम्, राजादि राज्यम् राजत्वं राजता, काव्यं कवित्वं कविता, ब्राह्मण्यं ब्राह्मणत्वं ब्राह्मणता । चकारो भावे कर्मणि चेत्युभयसमुच्चयार्थः ।
राजन्, कवि, ब्राह्मण, माणव, दण्डमाणव, वाडव, चौर, धूर्त, आराधय, विराधय, उपराधय, अपिराधय, अनृशंस, कुशल, चपल, निपुण, पिशुन, चौक्ष, स्वस्थ, विश्वस्त, विफल, विशस्य, पुरोहित, ग्रामिक, खण्डिक, दण्डिक, कर्मिक, चर्मिक, वर्मिक, शिलिक, सूतक, अजिनिक, अञ्जनिक, अञ्जलिक, छत्रिक, सूचक, सुहित, बाल, मन्द, होड राजादिराकृतिगणः । ६० ।
न्या० स० पति० – द्रव्याश्रयी गुण इति द्रव्याणामेवाश्रय एवास्यास्तीति ततो द्रव्यमेवाश्रयो यस्येति जातेर्व्यवच्छेदः अयं चैवकारोऽन्ययोगं व्यवच्छेदयति, नहि जातिर्द्रव्यमेवाश्रयति किंतु गुणमपि इति जातिर्गुणो न भवति । आश्रय एवेति किमुक्तं भवति ? केवलो गुणो न भवति, किंतु द्रव्यमेवाश्रयति, अनेन चायोगव्यच्छेदः, तेनोत्क्षेपणावक्षेपणेति या तार्किकाणां क्रिया तस्या गुणसंज्ञा न भवति, यत्तस्या आश्रय एव नास्ति ।
न च गुणवचना एवेति न हि मूढो गुणोऽपि भण्यते, किंतु मोहगुणद्वारेण गुणिन्येव वर्त्तते, अतो गुणोऽङ्गं प्रवृत्तिनिमित्तमस्याऽपि विद्यते इति गुणाङ्गः न तु गुणवचनः, गुणवचना हि पूर्व गुणे पश्चाद् गुणिनि वर्त्तन्ते, एतावता रूपादीनां व्युदासः ।