________________
[ पाद १. सू. ५८-५९ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः
[ २१९
समस्थ, विषमस्थ, पुरस्थ, परमस्थ, मध्यस्थ, मध्यमस्थ, दुष्पुरुष, कापुरुष, विशाल इति बुधादिः, एभ्यो नञ्तत्पुरुषेभ्यो राजादित्वात् टयण् । गडुलविशस्तदायादानामपि पाठ केचित् इच्छन्ति । अन्ये तु बुधादीनामष्टानामेव प्रतिषेधमिच्छन्ति, एषामेव च विकल्पमपरे । अथ टचणन्तानामेषां नञ्समासो भवति वा नवा बुधस्य भावः कर्म वा बौध्यम् न बोध्यम् अबोध्यमिति । भवतीत्येके, न भवतीत्यन्ये । ५७ |
न्या० स० नञ् तत्० – अत्र वयोवचनेति स्थविरशब्दस्य केवलस्यैव युवादौ पाठादत्र नञ्पूर्वस्य वयोलक्षणस्यात्र एव प्राप्तिस्तेनास्थाविरमित्यत्र युवाद्यण् ।
हामिति यो हायना यस्य गृहस्य त्रिहायनस्य भावः, अत्रावयोऽर्थत्वात् 'चतुहयनस्य वयसि २-३-७४ इति न णत्वम् ।
पृथ्वादेरिमन् वा ॥ ७१. ५८ ॥
पृथु इत्येवमादिभ्यस्तस्य भावे इमन् प्रत्ययो वा भवति । प्राक्त्वादित्यधिकारात् त्वतलौ च वावचनाद्यचाणादिः प्राप्नोति सोऽपि भवति । पृथोर्भाव: प्रथिमा पृथुत्वं पृथुता पार्थवम् म्रदिमा मृदुत्वं मृदुता मार्दवम्, बहुलस्य भावो बंहिमा । इमनि बहुलस्य ' प्रियस्थिर' ( ७-४-३८ ) इत्यादिना बंहभावः, बहुलत्वं बहुलता बाहुल्यम् । ट्यण् । वत्सिमा, वत्सत्वं, वत्सता वात्सं, वयोलक्षणोऽन् । पृथु, मृदु, पटु, महि, तनु, लघु, बहु, साधु, आशु, उरु, गुरु, खण्डु, पाण्डु, बहुल, चण्ड, खण्ड, अकिंचन, बाल, होड, पाक, वत्स मन्द, स्वादु, ऋजु, वृष, कटु, ह्रस्व, दीर्घ, क्षिप्र, क्षुद्र, प्रिय, महत्, अणु, चारु, वक्र, वृद्ध, काल, तृप्त इति पृथ्वादि: ।५८
वर्णदृढादिभ्यष्टचण् च वा ॥ ७. १. ५९ ॥
वर्णविशेषवाचिभ्यो दृढादिभ्यश्च तस्य भावे टघण् इमन् च इत्येतौ प्रत्ययो वा भवतः, प्राक्त्वादित्यधिकारात् त्वतलौ च । वावचनाद्यचाण् प्राप्नोति सोऽपि भवति । शुक्लस्य भावः शोक्ल्यं शुक्लिमा शुक्लत्वं शुक्लता, काष्र्ण्य कृष्णमा कृष्णत्वं कृष्णता, काद्रव्यं कद्रमा कद्रत्वं कद्रुता, शितेर्भाव: शैत्यं शितिमा शितित्वं शितिता शैतम्, वावचनाद्य्वृवर्णान्तस्य पाञ्चरूप्यम् । दृढादि, दढ द्रढिमा दृढत्वं दृढता, वाढय वढिमा वृढत्वं वृढता, पारिवृढयं परिव्रढिमा परिवृढत्वं परिवृढता, वैमत्यं विमतिमा विमतित्वं विमतिता वैमतम्, सांमत्यं संमतिता संमतित्वं संमतिता सांमतम्, य्वृवर्णान्तलक्षणोऽण् टकारो