________________
२१८ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू० ५७ ] इत्येतौ प्रत्ययावधिकृतौ वेदितव्यो गडुलादीन् वर्जयित्वा, ते उत्तरत्रैवोदाहरिष्यन्ते । अपवादः समावेशार्थः कर्मणि विधानार्थश्चाधिकारः। अगडुलादेरिति किम् ? गाडुल्यम्, कामण्डलवम् । गडुल, विशस्त, दायाद, बालिश, संवादिन्, बहुभाषिन्, शीर्षघातिन् ‘शीर्षाघातिन् ' कमण्डलु इति गडुलादिः । एषु कमण्डलोः 'य्ववर्णाल्लवादेः' (७-१-६९ ) इत्यण् । शेषेभ्यस्तु राजादेराकृतिगणत्वात् ट्यण् । गडुलादेरपि केचिदिच्छन्ति । गडुलत्वम् गडुलता ।५६।
न्या० स० प्राक्वा०-ते उत्तरत्रैवेति प्रत्यययोर्द्वित्वेऽपि प्रतिसूत्रं व्यक्त्यपेक्षया बहुवचनं, यद्वा त्वतल्प्रत्ययान्ताः शब्दाः । नञ्तत्पुरुषादबुधादेः ॥ ७. १. ५७ ॥
प्राक्त्वान्नपूर्वात्तत्पुरुषाधाद्यन्तजितात्त्वतलौ भवत इत्ययमधिकारो वेदितव्यः टयणादिबाधनार्थम् । न शुक्लोऽशुक्लस्तस्य भावोऽशुक्लत्वमशुक्लता, वर्णलक्षणटयण्बाधया स्वतलावेव, अशोक्ल्यम् अकार्ण्य मिति च टयणन्तेन समासः । समासात्तु टयणि नमो वद्धिः प्रसज्येत । एवमपतेर्भावः कर्म वा अपतित्वम् अपतिता, अत्र पत्यन्तलक्षणटयण्बाधया। अनाधिपत्यम् अगाणपत्यमिति ट्यणन्तेन समासः । अराजत्वमराजता, अत्र राजान्तलक्षणटयणबाधया, अनाधिराज्यमयौवराज्यमिति टयणन्तेन समासः । अमूर्खत्वममूर्खता, अत्र गुणाङ्गलक्षणटयणबाधया । अमौर्यम जाडथमिति टयणन्तेन समासः । अस्थविरत्वमस्थविरता, अत्र वयोवचनलक्षणाञ्बाधया, अस्थाविरमकैशोरमित्यणअन्तेन समासः। अहायनत्वमहायनता, अत्र हायनान्तलक्षणाणबाधया, अद्वैहायनम् अत्रैहायनमित्यणन्तेन समासः। अपटुत्वमपटुता, अत्र य्वृवर्णलक्षणाणबाधया, अपाटवमलाधवमित्यणन्तेन समासः । अरमणीयत्वमरमणीयता, अत्र योपान्त्यलक्षणाक बाधया । अरामणीयकम् अकामनीयकमित्यकान्तेन समासः । नग्रहणं किम् ? प्राजापत्यम् सैनापत्यम् । तत्पुरुषादिति किम् ? न विद्यते पतिरस्य अपतिमः तस्य भावः कर्म वा आपत्यम् एवमाराज्यम्, आहायनम्, आरमणीयकम् । अबुधादेरिति किम् ? न बुधः अबुध: तस्य भावः कर्म वा आबुध्यम्, आचतुर्यम् ।
बुध, चतुर, संगत, लवण, वड, कत, रस, लस, यथा, तथा, यथातथ, यथापुर, ईश्वर, क्षेत्रज्ञ, संवादिन, संवेशिन्, संभाषिन्, बहुभाषिन्, शीर्षघातिन्,