________________
पाद. १. सू. २६-२९] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२०७ यावत्केवलस्य सादेच विधिर्वेदितव्यः ।२५। हलस्य कर्षे ॥ ७. १. २६ ॥
हलशब्दात्केवलात्सादेश्च निर्देशादेव षष्ठयन्तात्कर्षेऽर्थे यः प्रत्ययो भवति । हलस्य कर्षों हल्या हल्यो वा, द्वयोद्विहल्या, त्रिहल्या, परमहल्या। उसमहल्या, बहुहल्यः । यत्र हलं कृष्टं स मार्गः कर्षः । कृष्यते इति कर्षः क्षेत्रमित्यन्ये ।२६।
न्या० स० हल०-कृष्टमिति कृष्टं गमित्यर्थः, कर्ष इत्यधिकरणे पञ्, न तु कर्ष इति पलस्य चतुर्थो भागः परिमाणमिह गृह्यते अनभिधानात् । सीतया संगते ॥ ७. १. २७ ॥
सीताशब्दात्केवलात्सादेश्च निर्देशादेव तृतीयान्तात्संगतेऽर्थे य: प्रत्ययो भवति । सीतया संगतं सीत्यम्, द्वाभ्यां सीताभ्यां संगतं द्विसीत्यम्, त्रिसीत्यम्, परमसीत्यम् । यस्य पूर्णोऽवधिः ।२७।। ईयः ।। ७. १. २८ ।।
आ तद इत्यनुवर्तते, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्रातदोऽर्थेषु ईय इत्यधिकृतं वेदितव्यम् ।२८॥ हविरन्नभेदापूपादेर्यो वा ॥ ७. १. २९॥
हविर्भेदवाचिभ्योऽन्नभेदवाचिभ्योऽपूपादिभ्यश्च शब्देभ्यः आ तदोऽर्थेषु वा यः प्रत्ययोऽधिक्रियते, ईयापवादः । हविर्मेदः आमिक्षायै इदं दधि आमिक्ष्यम्, आमिक्षीयम् पुरोडाशाय इमे पुरोडाश्याः, पुरोडाशीयास्तण्डुलाः, हविस्शब्दात्तु परत्वाद्युगादिपाठान्नित्यमेव यः। अन्नभेद, ओदनाय इमे ओदन्या ओदनीयास्तण्डुलाः, कृशरायै कृशाः कृशरीयास्तण्डुलाः, सुराय सुर्याः सुरीयास्तण्डुलाः । अपूपादि, अपूपायेदमपूप्यम्, अपूगीयम्, तण्डुलाय तण्डुल्यम्, तण्डलीयम् । 'सादेश्चेत्यधिकारात्तदन्तादपि भवति । यषापूप्यम् यथापूपीयम्, व्रीहितण्डुलीयम्, व्रीहितण्डुलीयम् । उवर्णान्तात्तु हविरघ्नभेदात्परत्वान्नित्यो यो भवति । चरव्यास्तण्डुलाः, सक्तव्या धानाः । अपूप, तण्डुल, ओदन, पृथक, अभ्यूष, अभ्योष, अवोष, किण्व, मुसल, कटक, शकट, कर्णवेष्टक, ईर्गल, ईल्वल, स्थूणा, यूप, सूप, दीप प्रदीप अश्वपत्र इत्यपूपादिः । अपूपादिषु येऽन्नभेदशब्दा अपूपादयस्तेषां केनचिदाकारसादृश्येन अर्थान्तरवृत्तो प्रत्ययार्थमुपादानम् । केचित्तु अपूपादिपठितान्नभेदव्यतिरिक्तानामन्नभेदानां तदन्तविधि नेच्छन्ति । यवसुरीयम्