________________
बृहद्वृत्ति - लघुन्यास संबलि
२०८ ]
विष्टसुरीयम्, यो न भवति । २९ ।
न्या० स० हवि० - आमिति - आमिश्रितं क्षीरं काञ्जिकेन यस्यां सा आमिश्रितक्षीरा तार्थत्वात् काञ्जिकशब्दस्य लोपः, पृषोदरादित्वादामिक्षादेशः ।
[ पाद- १ सू० ३०-३१
•
अर्थान्तरवृत्ताविति अपूषाकर्र चर्माद्यपूपमित्येव । तदन्तविधिमिति कोऽर्थः ? ये अपूपादिषु पठिता अन्नभेदास्तेषां तदन्तानां विर्धिर्भवति, अन्नभेदवाचिनां तु अपूपादिष्वपठितानां तदन्तविधिर्न भवतीत्यर्थः ।
उवर्णयुगादेर्यः
1: 11 6. 9. 30 11
वर्णान्ताद्युगादिभ्यश्चा तदोऽर्थेषु यो भवति, ईयापवादः । उवर्ण, शङ्कवे इदं शङ्कव्यं दारु, पिचव्यः कर्पासः, परशव्यमयः, कमण्डलव्या मृत्तिका चरव्यास्तण्डुलाः, सक्तव्या धानाः । युगादि, युगाय हितं युगार्थं युगोऽस्य स्यादिति का युग्यम् । हविष्यम् । सादेवेत्यधिकारात्सुयुग्यम् । अतियुग्यम् ।
युग, हविस्, अष्टका बहिस्, मेधा, स्रच्, बीज, कूप, क्षर, अक्षर, खद, स्खद, विष, दाश, खर, असुर, दर, अध्वन्, गो इति युगादिः । ' गोः स्वरे यः' ( ६-१-२७ ) इत्यनेनैव सिद्धे गोग्रहणं तदन्तार्थम् । तेन सुगव्यम् अतिगव्यम् इत्यपि सिद्धम् । इह यग्रहणं बाधक बाधनार्थम् । सनङ्गवे इदं सनङ्गव्यं चर्म अत्र हि परत्वात् 'चर्मण्यञ् ( ७-१-४५ ) इति
प्राप्नोति |३०|
न्या० स० — उब ०—बाधनार्थमिति वर्णान्तत्वादनेन यः प्राप्तस्तं बाधित्वा चर्मण्यञ प्राप्त इति तद्बाधनार्थम् ।
नाभेर्नम् चादेहाशात् ।। ७. १.३१ ॥
नाभिशब्दाददेहांश वाचिन आ तदो वक्ष्यमाणेष्वर्थेषु यः प्रत्ययो भवति नाभिशब्दस्य च नभ् इत्यादेशो भवति । नाभ्यै नाभये वा हितं नभ्य मञ्जनम्, नभ्योऽक्षः, नाभये इदं नभ्यं दारु, अरकमध्यवर्ती अक्षधारणश्चक्रावयवो नाभिस्तदर्थं नभ्यम् । यत्तु अरकगण्डरहितं चक्रम् एककाष्ठं तत्र न नाभिरिति तदर्थे नभ्यमित्युपचारात् । नभ्यो वृक्षः नभ्या शिशपेति नभ्यार्थे वृक्षादी ताच्छन्द्यान्नभ्यत्वम् इन्द्रार्थायां स्थूणायामिन्द्रवत् । अदेहांशादिति किम् ? नाभये हितं नाभ्यं तैलम् अत्र नभादेशो न भवति । यस्तु ' प्राण्यङ्ग '_ ( ७-१-३७ ) इत्यादिना भवति |३१|
न्या० स० नामे० – एककाष्ठमिति पाषाणानयनशकटस्य रहडू इति प्रसिद्धस्य । नभ्यो वृक्ष इति शाखाद्येव नाभये हितं न समस्तो वृक्ष इति प्रश्नाशयः ।