SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २०६ ] बृहद्वृत्ति-लघुन्यासर्सवलिते [पादः १. सू. २०-२५ सार्वजनीनः ।१९। प्रतिजनादेरीनञ् ॥ ७. १. २० ॥ प्रतिजनादिभ्यस्तत्र साधावीनञ् प्रत्ययो भवति । प्रतिजने साधुः प्रातिजनीनः, अनुजने साधुः आनुजनीन:, इदंयुगे साधु: ऐदंयुगीनः । प्रतिजन, अनुजन, विश्वजन, पाञ्चजन, महाजन, इदंयुग, संयुग, समयुग, परयुग, परकुल, परस्यकुल, अमुष्यकुल इति प्रतिजनादिः ।२०। न्या० स० प्रति०--परस्यकुलेति गणपाठात् षष्ठ्य लुप् , 'षष्ठ्याः क्षेपे.' ३-२-३० इति वा यदा परकुलसंबन्धित्वेनाऽक्षिप्यते । एवमुष्यकुलेति। कथादेरिकण् ॥ ७. १. २१ ॥ __ कथादिभ्यः सप्तम्यन्तेभ्यः साधावणे इकण् प्रत्ययो भवति । कथायां साधुः काथिकः, वैकथिकः । कथा, विकथा, विश्वकथा, संकथा, वितण्डा, जनेवाद, जनवाद, (जनोवाद) भृशोवाद, जनभृशोवाद, वृत्ति, संग्रह, गुण, गण, आयुर्वेद, गुड, कुल्माष, गुल्मास, इक्षु, सक्तु, वेणु, अपूप, मांसौदन, मांद, ओदन, संग्राम, संघात, संवाह, प्रवास, निकास, उपवास इति कथादिः ।२१॥ देवतान्तात्तदर्थे ॥ ७. १. २२ ।। देवतान्ताच्छब्दरूपात्तदर्थेऽर्थे य: प्रत्ययो भवति । अर्थाच्चतुर्थ्यन्तात प्रत्ययः, अग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम्, देवदेवत्यम् । देवताशब्देन देयस्य हविरादेः प्रतिग्रहीता स्वामी संप्रदानमुच्यते ।२२। न्या० स० देव०-तदर्थ इति प्रत्ययार्थादेवेत्यर्थः । पाद्याध्यें ॥७. १. २३ ॥ पाद्य अर्घ्य इत्येतौ तदर्थे यप्रत्ययान्तौ निपात्येते पादार्थमुदकं पाद्यम्, निपातनादेव ये पदादेशो न भवति । अर्को मूल्यं पूजनं वा, अर्धार्थ रत्नमय॑म् ॥२३॥ ण्योतिथेः ॥ ७. १. २४ ॥ अतिथिशब्दात्तदर्थे ण्यः प्रत्ययो भवति । अतिथ्यर्थमातिथ्यम् ।२४। सादेवा तदः ॥ ७. १. २५ ॥ अधिकारोऽयम् यदित ऊर्ध्वमनुक्रमिष्यामस्तन आ तदस्तदिति सूत्रं
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy