________________
[ पाद. १. सू. १२-१९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२०५ धर्म्यम् सुखम्, धर्मादनपेतं च धर्म्यम् । यद्धर्ममनुवर्तते ॥११॥ नौविषेण तार्यवध्ये ॥ ७. १. १२ ॥
नौविष इत्येताभ्यां निर्देशादेव तृतीयान्ताभ्यां यथासंख्यं तार्ये वध्ये चार्थे यः प्रत्ययो भवति । नावा तायं नाव्यमुदकम्, नाव्या नदी, विषेण चध्यो वधार्थी विष्यः ।१२। न्यायार्थादनपेते ॥ ७. १. १३ ॥
न्याय अर्थ इत्येताभ्यां निर्देशादेव पञ्चम्यन्ताभ्यामनपेतेऽर्थे यः प्रत्ययो भवति । न्यायादनपेतं न्याय्यम्, अर्थादनपेतमर्थ्यम् ॥१३॥ मतमदस्य करणे ॥ ७. १. १४ ॥
मतमदशब्दाभ्यां निर्देशादेव षष्ठयन्ताभ्यां करणेऽर्थे यः प्रत्ययो भवति । इष्टं साम्यं ज्ञानं मतिर्वा मतशब्देनोच्यते, करणं साधकतमं कृतिर्वा । मतस्य करणं मत्यम्, मदस्य करणम् मद्यम् ॥१४॥ ___ न्या० स० मत०-साम्यमित्ति मननं मतं, धावूनामनेकार्थत्वेन मतशब्दः साम्येऽपि यथा मतीकृता समीकृतेत्यर्थः । तत्र साधौ ॥७. १. १५ ॥
तत्रेति सप्तम्यन्तात्साधावर्षे यः प्रत्ययो भवति । साधुः प्रवीणो योग्य उपकारको वा, सामनि साधुः सामन्यः, वेमनि साधुर्वमन्यः, कर्मणि कर्मण्यः, सभायां सभ्यः, शरणे शरण्यः ।१५। पथ्यतिथिवसतिस्वपतेरेयण ॥ ७. १. १६ ॥
पथिन् अतिथि वसति स्वपति इत्येतेभ्यस्तत्र साधौ एयण प्रत्यमो भवति । पथि साधु पायेयम्, आतिथेयम्, वासतेयम्, स्वापतेयम् ।१६।।
भक्ताण्णः ॥ ७. १. १७ ॥ . भक्तशब्दात्तत्र साधौ णः प्रत्ययो भवति । भक्तं साधुर्भाक्तः शालिः, भाक्त'स्तण्डुलाः ।१७। पर्षदोण्यणौ ॥७. १. १८॥
पर्षच्छन्दात्तत्र साधौ ण्यणेत्येतो प्रत्ययो भवतः । पर्षदि साधुः पार्षद्यः, पार्षदः । परिषदोऽपीच्छन्त्यन्ये, पारिषद्यः, पारिषदः ।१८। सर्वजनाण्ण्येनत्रौ ॥ ७. १. १९॥
सर्वजनशब्दात्तत्र साधौ ण्य ईनञ् इत्येतो प्रत्ययौ भवतः । सार्वजन्यः,