SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २०४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू० ११ ] हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम् हृद्यादयः शब्दा यथास्वमर्थविशेषेषु यप्रत्ययान्ता निपात्यन्ते, हृद्य इति हृदयशब्दात् षष्ठ्यन्तात् प्रियेऽर्थे बन्धने च वशीकरणमन्त्रे यः प्रत्ययो निपात्यते। हृदयस्य प्रियं हृद्यमौषधम् । हृद्यो देशः । हृदयस्य बन्धनो हृयो वशीकरणमन्त्रः । 'हृदयस्य हल्लासले खाण्ये '-(३-२-९४) इति हृदादेशः । निपातनं रूढयर्थं तेनेह न भवति । हृदयस्य प्रियः पुत्रः। पद्य इति पदशब्दात्प्रथमान्तात् दृश्यत्वोपाधिकादस्मिन्निति सप्तम्यर्थे यः। पदमस्मिन् दृश्यं पधः कर्दमः नातिद्रवो नातिशुष्को यत्र प्रतिमुद्रोत्पादनेन पदं द्रष्टुं शक्यते, तुल्य इति तुलाशब्दात्संमितेऽर्थे यः, तुलया संमितं तुल्यं भाण्डम्, निपातनं रूढयर्थम्, तेन न तुलासंमित एवोच्यते किं तु सहशार्थोऽपि तुल्यशब्दः, गिरिणा तुल्यो हस्ती। मत्यमिति मूलशब्दात्प्रथमान्तादस्येति षष्ठपर्थे यः तच्च यद्यत्पाटनयोग्यं भवति । मूलमेषामुत्पाठयं मूल्या मुद्धाः । तृतीयान्ताच्चानाम्ये समे च, मूलेनानाम्यं मूल्यम् । मूलं पटाद्युत्पत्तिकारणम्, तेनानाम्यं यत्पटादेविक्रयाप्राप्यते सुवर्णादि तन्मूल्यम् । मूलेन समो मूल्यः पटः, उपादानेन समानफल इत्यर्थः । वश्य इति वशशब्दाद्वितीयान्तादतेऽर्थे य: । वशं गतो वश्यो गौविधेयः । इच्छानुवर्तीति यावत्, निपातनं रूढयर्थं तेनेह न भवति । वशं गतः, इच्छां प्राप्तः, अभिप्रेतं गत इत्यर्थः। पथ्य इति पथिन्शब्दादनपेते यः पथोऽनपेतं पथ्यम् ओदनादि । निपातनादिह न भवति, पथोऽनपेतं शकटादि । वयस्य इति वयःशब्दात्तृतीयान्तात्तुल्येऽर्थे यः। वयसा तुल्यो वयस्यः सखा, निपातनादिह न भवति । वयसा तुल्य: शत्रुः । धेनुष्येति-धेनुशब्दाद्विशिष्टायां धेनौ.यः षोऽन्तश्च । धेनुष्या या गोमता गोपालायाधमणेन चोत्तमय आ ऋणप्रदानाद्दोहार्थं धेनुदीयते सा धेनुरेव धेनुष्या। पीतदुग्धेति यस्याः प्रसिद्धिः। गार्हपत्य इति गृहपतिशब्दात्तृतीयान्तात्संयुक्तेऽर्थे ञ्यः प्रत्ययः, गृहपतिना संयुक्तो गार्हपत्य एवंनामा कश्चिदग्निः । निपातनादन्यत्र न भवति । जन्य इति जनीशब्दाद्वधूवाचिनो द्वितीयान्ताद्वहत्सु अभिधेयेषु जनशब्दाच्च षष्ठयन्ताज्जल्पेऽर्थे यः । जनीं वहन्ति जन्याः जामातु यस्या उच्यन्ते, जनस्य जल्पः जन्यः । निपातनादन्यत्र न भवति । धर्म्य इति धर्मशब्दात्तृतीयान्तात्प्राप्येऽर्थे पञ्चम्यन्ताच्चानपेतेऽर्थे यः । धर्मेण प्राप्यं
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy