SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तमोऽध्यायः ॥ ॥प्रथमः पादः॥ यः ॥ ७ १.१॥ अधिकारोऽयम्, यदित ऊर्ध्वमनुक्रमिष्यामो यावत् प्रकृतिसामान्यविषयमनपात्तप्रकृतिविशेष प्रत्ययान्तरमीयोऽधिकरिष्यते तावत् तत्र य इत्येतदपवादविषयं परिहृत्याधिकृतं वेदितव्यम् ॥१॥ न्या० स० य:-प्रकृतसामान्येति प्रकृतिसामान्यं विषयो यस्य अत एवानुपात्तः प्रकृतिविशेषो यत्र तत्प्रत्ययान्तरमीयलक्षणमित्यर्थः । वहति रथयुगमासङ्गात् ॥ ७. १. २॥ तमित्यनुवर्तते, तमिति द्वितीयान्तेभ्यो रथयुगप्रासन इत्येतेभ्यो वहत्यर्थे यः प्रत्ययो भवति । - रथं वहति रथ्यः, द्वौ रथौ वहति द्विरथ्यः, युगं वहति युग्यः । इहानभिधानान्न भवति । कालसंज्ञकं युगं वहांते राजा, युगं वहति मनुष्यः । 'कुप्यभिध'-(५-१-३९) इत्यादिनिपातनादेव युग्य इति सिद्धे इदमर्थविवक्षायामण्वाधनार्थं युगग्रहणम् । यो हि युगं वहति स युगस्य संबन्धी भवति । प्रसज्यते इति प्रासङ्गः । यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते । तत् वहति यः स प्रासङ्गधः। यत्त्वन्यत् यत्प्रसङ्गादागतं प्रासङ्गमिति तदहति न भवत्यनभिधानात् । ननु यो रथं वहति स रथस्य वोढा भवति, तत्र 'रथात्सादेश्च वोढङ्गे' 'यः'-(६-३-१७५) इत्येव सिद्धम् तत्कि रथस्य ग्रहणेन ? सत्यम्, अलुबर्थ तु तस्य ग्रहणं, तेन हि ये विधीयमाने 'द्विगोरनपत्ये यस्वरादेल बद्विः'-(६-१-२४) इति लुपा भवितव्यम् । द्वयो रथयोर्वोढा द्विरथः। अनेन तु विधीयमाने न भवति अप्रागजितीयत्वात्, एवं च द्विगो रूपद्वयं संपन्नं भवति ।२। न्या० स० वह-युगं वहति पनुष्य इति अकालसंज्ञकेऽपि युगे मनुष्ये वोढरि न भवतीत्यर्थः । अनेन विति नन्वत्र ग्रहणवता न्यायादेव तदन्तस्य यो न भविष्यति तत्कथमुच्यते अलुबर्थमिति ? ___ उच्यते, एतदेव सूत्रकरणं ज्ञापयति, यत्तदन्तादपि भवति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy