SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०२] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ३-७ ] धुरो यैयण ॥ ७. १. ३ ॥ धुर् इत्येतस्मात् द्वितीयान्तात् वहत्यर्थे य एयण् इत्येतौ प्रत्ययौ भवतः । धुरं वहति धुर्यः धौरेयः। एयण वेत्यकृत्वा यग्रहणमिदमर्थविवक्षायां वहत्यर्थेऽण्बाधनार्थम् । यो हि यद्वहति स तस्य संबन्धी । कश्चित् तु यडेय कणावपीच्छति तन्मते धुर्यः । स्त्रियां टित्त्वान् ङी धुरी, धौरेय कः ।३। वामाद्यादेरीनः ॥ ७ १.४॥ वाम आदिर्येषां ते वामादयः । तत्पूर्वात् धुर् इत्येतदन्तात् द्वितीयान्ताद्वहत्यर्थे ईन: प्रत्ययो भवति । वामा धूर्वामधुरा, समासान्तादाप् । वामधुरां वहति वामधुरीणः । एवं सर्वधुरीणः, उत्तरधुरीणः, दक्षिणधुरीणः । वामादयः प्रयोगगम्याः । सर्वधुर्य इत्यत्र यप्रत्ययोऽपीति कश्चित् । धुरीण इति केवलादपीन इत्यन्यः ।४। न्या० स० वामा०-धुर् इत्येतदन्तादिति ननु च वामधुरादिसमुदायः समासान्तादापि कृते धुरन्तो न भवति तत्र कथं धुरन्तादुच्यमानः प्राप्नोति प्रत्ययः ? उच्यते, 'धुरोऽनक्षस्य ' ७-३-७७ इति समासान्तेन भाव्यमेव ततः सामासान्तत्वे मुख्यान्तत्वायोगात् तत्समीपवर्ती समासान्तो धुरन्त इत्यदोषः । अश्चैकादेः॥ ७. १. ५ ॥ एकशब्दादेधुर् इत्येतदन्ताद्वितीयान्ताद्वहत्यर्थे अः प्रत्ययो भवति चकारादीनश्च । एका एकस्य वा धूरेकधुरा । एका धूरस्मिन्नेकधुरम्, तां तद्वा वहति एकधुरः, एकधुरीणः ।५। हलसीरादिकण ॥७. १.६॥ ___ हलसीर इत्येताभ्यां द्वितीयान्ताभ्यां वहत्यर्थे इकण् प्रत्ययो भवति । हलं वहति हालिकः, सैरिकः ।६। शकटादण् ।। ७. १.७॥ शकटशब्दाद्वितीयान्ताद्वहत्यर्थेऽण् प्रत्ययो भवति । शटकं वहति शाकटो गौः ।। .. __ ननु च : तस्येदम् ' (६-३-१५९) इति शकटादण् हलसीरादिकण् (६-३-१६०) इति हलसीराभ्याम् इकण च सिद्ध एव, यो हि यद्वहति स तस्य संबन्धी भवति ? सत्यम्, रथवदेव तदन्तार्थमुपादानम्, तेनाबापि द्विगौ द्वैरूप्यं भवति । द्वयोः शंकटयोहलयोः सीरयोर्वा वोढा द्विशकटः,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy