________________
२०० ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४. सू. १८२-१८५ ] छेदादेनित्यम् ॥ ६. ४. १८२ ॥
नित्यमित्यहतीत्यस्य विशेषणम्, छेदादिभ्यो द्वितीयान्तेभ्यो नित्यमहत्यर्थे यथाविहितं प्रत्ययो भवति । छेदं नित्यमर्हति छैदिकः, भैदिकः । छेद, भेद, द्रोह, दोह, नर्त, गोनर्त, कर्ष, विकर्ष, प्रकर्ष, विप्रकर्ष, प्रयोग, विप्रयोग, संप्रयोग, प्रेक्षण, संप्रश्न, विप्रश्न इति छेदादिः ।१८२। विरागादिरङ्गश्च ॥ ६. ४. १८३॥
विरागशब्दाद्वितीयान्तान्नित्यमहत्यर्थे यथाविधि प्रत्ययः तत्संनियोगे च विरागशब्दस्य विरङ्गादेशो भवति । नित्यं विरागमर्हति वैरङ्गिकः ।१८३।। शीर्षच्छेदाद्यो वा ॥ ६. ४. १८४ ॥
शीर्षच्छेदा द्वितीयान्तानित्यमहत्यर्थे यः प्रत्ययो वा भवति, पक्ष इकण् । शीर्षच्छेदं नित्यमर्हति शीर्षच्छेद्यः चौरः, शैर्षच्छदिकः ।१८४। शालीनकौपीनाविजीनम् ॥ ६. ४. १८५॥ .
शालीन कौपीन आत्विजीन इत्येते शब्दास्तमहत्यर्थे ईनप्रत्ययान्ता निपात्यन्ते, नित्यमिति निवृत्तम् । निपातनस्येष्ट विषयत्वात् । शालीन इति शालाप्रवेशनशब्दादीनञ् उत्तरपदस्य च लुक, शालाप्रवेशन मर्हति शालोनः, अकारस्य वृद्धिनिमित्तत्वात्पुवद्भावो न भवति । शालीनाभार्यः । शालीनशब्दोऽधृष्टपर्यायः । कौपीन इति कूपप्रवेशनमहति कौपीनः, कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्तते । आत्विजीन इति ऋत्विज्शब्दात् ऋत्विकर्मशब्दाद्वा ईनञ् प्रत्ययः कर्मशब्दलोपश्च निपात्यते, ऋत्विजमहत्यात्विजीनो यजमान:, ऋत्विकर्हिति आत्विजीनः ऋत्विगेव।१८५।
न्या० स० शाली-गोपनीयेति उपस्थशब्देन सर्ववस्तूनां मध्यभागोऽभिधीयते इति गुह्यप्रतिपत्त्यर्थ गोपनीयग्रहणम् ।
इत्याचार्य० षष्ठस्याध्यायस्य चतुर्थः पादः ।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्ध हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः ॥ ६. ४ ॥
मि कामगवि स्वगोमयरसैरासिश्च रत्नाकरा मुक्तास्वस्तिकमातनुध्वमुडप त्वं पूर्णकुम्भीभव ।
धत्वा कल्पतरोदलानि सरलैंदिग्वारणास्तोरणान्याधत्त स्वकरविजित्य जगती नन्वे ते सिद्धाधिपः ।।