________________
[पाद ४. सू. १७६-१८१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १९९ डत्प्रत्ययान्तौ निपात्येते वा, पक्षे को भवति । पञ्च मानमस्य वर्गस्य पञ्चद्वर्गः, पञ्चको वर्मः, दशद्वर्गः, दशको वर्गः ।१७५। स्तोमे डट् ॥ ६. ४. १७६ ।।
संख्यावाचिनः प्रथमान्तात्तदस्य मानमित्यस्मिन् विषये स्तोमेऽभिधेये डट् प्रत्ययो भवति । ऋगादीनां समूहः स्तोमः । पञ्चदश ऋचो मानमस्य पञ्चदशः स्तोमः। विशः, पञ्चविंश, त्रिंशः, पञ्चदशी पङ्क्तिः। डकारोऽन्त्यस्वरादिलोपार्थः । टकारो ड्यर्थः ।१७६। तमहति ॥६. ४. १७७॥
तमिति द्वितीयान्तादर्हदर्थे यथाविधि प्रत्ययो भवति । श्वेतच्छामर्हति "तच्छत्रिका, बैषिकः, वास्त्रिकः, वास्त्रयुगिकः, आभिषेचनिकः, बालीवर्दिकः, चामरिकः, शत्यः शतिकः, साहस्रः, भोजनमर्हति पानमर्हतीत्यादावनभिधानान भवति ।१७७। दण्डादेयः ।। ६. ४. १७८ ॥
दण्डादिभ्यो द्वितीयान्तेभ्योऽहत्यर्थे यः प्रत्ययो भवति । इकणोऽपवादः । दण्डमर्हति दण्ड्यः , मुसल्यः, दण्ड, मुसल, मेधा, वध, मधुपर्क, अर्घ, मेघ (थ), उदक, इभ, कशा, युम इति दण्डादिः ।१७८। यज्ञादियः ॥६. ४. १७९ ॥
यज्ञशब्दाद्वितीयान्तादर्हत्यर्थे इयः प्रत्ययो भवति । यज्ञमर्हति यज्ञियो देशः, यज्ञियो यजमानः, यज्ञो नाम क्रियासमुदायः कश्चित् तदभिव्यङ्ग्यं चापूर्वम् इत्याहुः ।१७९। पात्रात्तौ ॥ ६. ४. १८० ॥
पात्रशब्दाद्वितीयान्तादर्हत्यर्थे तौ य इय इत्येतौ प्रत्ययो भवतः। पात्रमर्हति पान्यः । पात्रियः ।१८०। दक्षिणाकडङ्गरस्थालीविलादीययौ ॥ ६. ४. १८१ ॥
दक्षिणा कडङ्गर स्थालीबिल इत्येतेभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे ईय य इत्यतौ प्रत्ययौ भवतः । दक्षिणामहति दक्षिणीयो दक्षिण्यो मुरुः, कडङ्गरीयः कडङ्गयों गौः । कडङ्गरं माषादिकाष्ठम्, स्थालीविलीयाः स्थालीविल्या स्तण्डुलाः पाकाहा॑ इत्यर्थः ।१८१।