________________
[पाद ४. सू. ७८-८०] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १७५ सतीर्थः ॥६. ४. ७८ ॥
सतीर्थ्य इति समानतीर्थशब्दात्तत्र वसत्यर्थे य: प्रत्ययो निपात्यते समानशब्दस्य च सभावः, समानतीर्थे वसति सतीर्थ्यः । तीर्थमिह गुरुरुच्यते ।७८। प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ॥ ६. ४. ७९ ॥
प्रस्तारसंस्थान इत्येताभ्यां प्रस्तारान्तात् संस्थानान्तात् कठिनान्ताच्च. व्यवहरत्यर्थे ३कण् प्रत्ययो भवति । व्यवहरतिरिह क्रियातत्त्वे क्रियाया अविपरीतस्वभावे, यथा लौकिको व्यवहार इत्यत्र, प्रस्तारे व्यवहरति प्रास्तारिकः, सांस्थानिकः, तदन्त, कांस्यप्रस्तारिकः । लौहप्रस्तारिकः, गौसंस्थानिकः, आश्वसंस्थानिकः, कठिनान्त, वांशकठिनिकः, वार्धकठिनिकः, कठिनं तापसभाजनं पीटं वा । बहुवचनं कठिनान्तेति स्वरूपग्रहणव्युदासार्थम् रूढयर्थं च, प्रस्तारसंस्थानाभ्यां तदन्ताभ्यां केचिन्नेच्छन्ति ७९।
न्या० स० प्रस्ता०-व्यवहरतिरिति व्यवहरतिरयमस्ति विनिमये, यथा शतं व्यवहरति शतस्य व्यवहरति इति, अस्ति विवादे, यथा व्यवहारे पराजित इति, अस्ति विक्षेपे, यथा शलाका व्यवहरति, अस्ति क्रियातत्वे, यथा लौकिको व्यवहार इति, तह क्रियातत्त्वे वर्तमान आश्रीयते, क्रियायास्तत्त्वमविपरीतः स्वभावः, यथेत्यादिनाऽत्रैव व्यवहरति निदर्शयति, अस्य त्वर्थस्य ग्रहणे हेतुः, प्रत्ययान्तादविपरीतस्वरूपक्रियानुष्ठातुः प्रतिपत्तिः ।
रूढयर्थ चेति रूढिश्च तापसभाजनेत्यादि तेन कठिने कठोरे न । संख्यादेश्वार्हदलुचः ॥६. ४. ८०॥
आ अहंदर्थादित ऊर्ध्वं या प्रकृतिरुपादास्यते तस्याः केवलायास्तदन्तायाश्च संख्यापूर्वाया वक्ष्यमाणः प्रत्ययो भवतीति वेदितव्यम् न चेत्सा लुगन्ता भवति । चन्द्रायणं चरति चान्द्रायणिकः, द्वे चन्द्रायणे चरति द्वैचन्द्रायणिकः, पारायणमधीते पारायणिकः, द्वे पारायणे अधोते द्वैपारायणिकः संख्यादेरिति किम् ? परमपारायणमधीते, महापारायणमधीते, चकारः केवलार्थः । आर्हत इत्यत्राकारोऽभिविधौ, तेनाहदर्थेऽपि भवति । द्वे सहस्र द्विसहस्र वार्हति द्विसाहस्रः । अलुच इति किम् ? द्वाभ्यां सूर्याभ्यां क्रीतं द्विशूर्पम्, अत्र “शूद्वाञ्' (६-४-१३७) इत्यञ् । 'अनाम्न्यद्विः प्लुप्' (६-४-१४१) इति लुप् । द्विशूर्पण क्रीतं द्विशौपिकम् । त्रिशोपिकम् । पुनरपि 'शूद्विाज्' (६-४-१३७) इत्यञ् न भवति ।८०।
न्या० स० संख्या-द्वैचन्द्रायणिक इति 'द्विगोरनपत्ये' ६-१-२४ इत्यनेन न लुप्, प्रागजितीयेऽर्थे तस्य विधानात् , 'अनाम्न्यद्विः' ६-४-१४१ इत्यपि न यतोऽनाम्न्येति सूत्रेणास्मादेव सूचात् येऽस्तिमहतीति यावत् तेष्वेव लुप् न त्वेषु तेन नात्र लुप् ।