________________
१७६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
गोदानादीनां ब्रह्मचर्ये ॥ ६. ४. ८१ ॥
गोदानादिभ्यो निर्देशात् षष्ठ्यन्तेभ्यो ब्रह्मचर्येऽभिधेये इकण् प्रत्ययो भवति । गोदानस्य ब्रह्मचर्यं गौदानिकम्, आदित्यव्रतानामादित्यव्रतिकम्, महानाम्नीनां माहानाम्निकम् । गोदानादयः प्रयोगगम्याः, येभ्योऽस्मिन्नर्थे इकण् दृश्यते ते गोदानादयः ॥८१॥
न्या० स० गोदा० गोदानस्येति गाव इति लोम्नामाख्या गवां लोभनां दानं लवनं वपनमित्यर्थः, यावत् गोदानं न करोति तावद् ब्रह्मचर्यमित्यर्थः । चन्द्रायणं च चरति ॥ ६. ४. ८२ ॥
[ पाद. ४ सू. ८१-८६ ]
चन्द्रायणशब्दान्निदेशादेव द्वितीयान्तादोदानादिभ्यश्चार्थात् द्वितीयान्तेश्रत्यर्थे इण् प्रत्ययो भवति । चन्द्रायणं चरति चान्द्रायणिकः, गोदानं चरति गौदानिकः, आदित्यव्रतिकः, महानाम्न्यो नाम ऋचः । तत्साहचर्यातासां व्रतमपि महानाम्न्यः, महानाम्नीव्रतं चरति माहानाम्निकः ॥८२ |
देवव्रतादीन् डिन् ॥ ६. ४. ८३ ॥
देवव्रतादिभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् प्रत्ययो भवति । देवव्रतं चरति देवव्रती, तिलव्रती, अवान्तरदीक्षी, महाव्रती, देवव्रतादयः प्रयोगगम्याः । डिस्करणमुत्तरत्रान्त्यस्वरादिलोपार्थम् । ८३ ।
कचाष्टाचत्वारिंशतं वर्षाणाम् ॥ ६. ४. ८४ ॥
वर्षाणां संबन्धिनोऽष्टाचत्वारिंशच्छन्दाद्व्रत वृत्तेनिदेशादेव द्वितीयान्ताच्चरत्यर्थे डकचकाराडिन् च प्रत्ययो भवति । अष्टाचत्वारिंशद्वर्षसहितं व्रतमष्टाचत्वारिंशत् तच्चरति अष्टाचत्वारिंशकः, अष्टाचत्वारिंशी १८४ चातुर्मास्यं तौ यलुक् च ।। ६. ४. ८५ ।।
चातुर्मास्यशब्दाद्वतवृत्ते निर्देशादेव द्वितीयान्ताच्चरत्यर्थे तो डकडिनो प्रत्ययौ यलोपश्च भवति । चतुर्षु मासेषु भवानि ' यज्ञे ञ्यः' (६-३-१३३) इति यः चातुर्मास्यानि नाम यज्ञाः, तत्सहचरितानि व्रतानि चातुर्मास्यानि तानि चरति चातुर्मासकः चातुर्मासी ॥८५॥ क्रोशयोजनपूर्वाच्छता योजनाच्चाभिगमार्हे ॥ ६. ४. ८६ ।।
क्राशशब्दपूर्वाद्यो जनशब्दपूर्वाच्च शताद्योजन शब्दाच्च निर्देशादेव पञ्चम्यन्तादभिगमाहूँऽर्थे इकण् प्रत्ययो भवति । क्रोशशतादभिगमनमर्हति कौशशतिको मुनिः, यौजनशतिको मुनिः, योजनिकः साधुः ॥८६ |