SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति- - लघुन्यास संवलिते नवयज्ञादयोऽस्मिन्वर्तन्ते ॥ ६. ४. ७३ ॥ नवयज्ञादिभ्यः प्रथमान्तेभ्यो वर्तन्त इत्येवमुपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण् प्रत्ययो भवति, नवा यज्ञा अस्मिन्वर्तन्ते नावयज्ञिकः । पाकयज्ञिकः, नवयज्ञादयः प्रयोगगम्याः ॥७३॥ १७४ ] [ पा० ४. सू० ७३-७७ ] तत्र नियुक्ते ॥ ६. ४. ७४ ॥ तत्रेति सप्तम्यन्तान्नियुक्तेऽर्थे इकण् प्रत्ययो भवति, नियुक्तोऽधिकृतो व्यापारित इत्यर्थः पूर्वकस्य नियुक्तमित्यस्य क्रियाविशेषणरूपस्याव्यभिचारो नित्यमिति चार्थः । प्रत्ययार्थश्चायम् स तु प्रकृत्यर्थोपाधिः । शुल्कशालायां नियुक्तः शौल्कशालिक, आपणिकः, आतरिकः, दौवारिकः, आक्षपटलिकः ॥७४ । अगारान्तादिकः ॥ ६. ४. ७५ ।। अगारान्तात्तत्र नियुक्तेऽर्थे इकः प्रत्ययो भवति । देवागारिकः, देवागारिका, भाण्डागारिकः, भाण्डागारिका, आयुधागारिकः, आयुधागारिका, कोष्ठागारिकः, कोष्ठागारिका ॥७५॥ अदेशकालादध्यायिनि ॥ ६. ४. ७६ ॥ तत्रेति वर्तते । अध्ययनस्य यो प्रतिषिद्धौ देशकालौ तावदेशकालौ । तद्वाचिनः सप्तम्यन्तादध्यायिन्यर्थे इकण् प्रत्ययो भवति, अदेश, अशुचावध्यायी आशुचिकः । श्मशानेऽध्यायी श्माशानिकः, श्माशानाभ्यासिकः, अकालः, सान्ध्यकः, औपातिकः, आनध्यायिकः । अदेशकालादिति किम् ? स्वाध्यायभूमावध्यायी, पूर्वाध्यायी ॥७६॥ न्या॰ स॰ अदेश॰—अध्ययनस्येति अध्यायिनश्च देशकालावेवाधारौ भवतः ताभ्यामन्यत्राये तुमशक्यत्वात्, तत्र देशकालयोराधाराभावेन प्रतिषिद्धयोः क्वान्यत्राध्यायी अधीयीत विरोधमाशङ्कयाह-अध्ययनस्येति एतेन प्रतिषिद्धदेशवाचकात् प्रतिषिद्धकालवाचकाच्च सप्तम्यन्तादृध्येतरि प्रत्ययः । निकटादिषु वसति ॥ ६. ४. ७७ ॥ निकटादिभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण् प्रत्ययो भवति । निकटे वसति नैकटिकः, आरण्यकेन भिक्षुणा ग्रामात्क्रोशे वस्तव्यमिति यस्य शास्त्रितो वासः स एवोच्यते । एतदर्थ एव च तत्रेत्यधिकारे सप्तमीनिर्देशः । वृक्षमूले वसति वार्क्षमूलिकः, श्माशानिकः, आभ्यवकाशिकः, आवसथिकः, निकटादयः प्रयोगगम्याः ॥७७॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy