________________
बृहद्वृत्ति - लघुन्याम संवलिते
माथोत्तरपदपदव्याक्रन्दाद्धावति ॥ ६. ४. ४० ॥
तमिति वर्तते । माथ उत्तरपदं यस्य तस्मान्नाम्नः पदवीशब्दादाक्रन्दशब्दाच्च द्वितीयान्ताद्धावत्यर्थे इकण् प्रत्ययो भवति । दण्डमाथं धावति दाण्डमाथिकः, शौक्लमाथिकः । माथशब्दः, पथिपर्याय: । दण्ड इव माथो दण्डमाथः ऋजुमार्ग उच्यते । पदवीं धावति पादविकः, आक्रन्दन्ति यत्र स देश आन्द आक्रन्द्यते इति वा आक्रन्दः आर्तायनं शरणमुच्यते । आक्रन्दं धावति आक्रन्दिकः, उत्तरपदग्रहणाद्बहुप्रत्ययपूर्वान्न भवति । बहुमाथं धावति ॥ ४० ॥
१६६ ]
[ पा० ४. सू० ४०-४४ ]
न्या० स० माथोत्तरपद० - दण्डमाथ इति मध्यते अवगाह्यते पादैः घनि माथः, दण्ड इय माथः, उपमानं सामान्यैरेवेति नियमादप्राप्तोऽपि " मयूरव्यंसक ३-१-११६ इति सः । पश्चात्यनुपदात् ।। ६. ४. ४१ ॥
पश्वातीति प्रकृतिविशेषणम् । पश्चादर्थः पश्चात् । पश्चादर्थे वर्तमानादनुपदशब्दाद्द्द्वितीयान्ताद्धावत्यर्थे इकण् प्रत्ययो भवति पदस्य पश्चादनुपदम्, अनुपदं धावति आनुपदिकः, प्रत्यासत्त्या धावतीत्यर्थः । पश्रातीति किम् ? अनुपदं धावति । अत्र दैर्येऽनुः ' ( ३-१-३४) समीपे ( ३-१-४७ ) इत्यादिना वा समासः । ४१ ।
' प्रात्यव -
सुस्नातादिभ्यः पृच्छति ॥ ६. ४. ४२ ॥
तमिति वर्तते । सुनातादिभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् प्रत्ययो भवति । सुस्नातं पृच्छति सौस्नातिकः, सौखरात्रिकः, सौखशायनिकः, सौखशाय्यिक:, सुस्नातादयः प्रयोगगम्याः ॥४२॥
प्रभूतादिभ्यो ब्रुवति ॥ ६. ४. ४३ ॥
प्रभूतादिभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् प्रत्ययो भवति । प्रभूतं ब्रूते प्राभूतिकः, पर्याप्तं ब्रूते पार्याप्तिकः, वैपुलिकः, वैचित्रिकः, नैपुणिकः, क्रियाविशेषणादयमिष्यते, तेनेह न भवति । प्रभूतमर्थं ब्रूते पर्याप्तमर्थं ब्रूत इति । कचिदक्रियाविशेषणादपि । स्वर्गमनं ब्रूते सौवर्गमनिकः, स्वागतिकः, सौवस्तिकः, प्रभूतादयः प्रयोगगम्याः ॥४३॥
न्या० स० प्रभू० – सौवस्तिक इति स्वतीति ब्रूते व्युत्पत्ति ४-५ इति अव्युत्पत्तिपक्षे तु — द्वारादेः ' ७-४-६ इत्यौत् । Movies माशब्दइत्यादिभ्यः ॥ ६ २,४४ ॥
" मा शब्द इत्यादिभ्यो ब्रुत्रत्यर्थं इकणू प्रत्ययो भवति । इति शब्दो
#