________________
('पाद. ४. सू. ३६-३९] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [१६५ कुसीदं वृद्धिस्तदथं द्रव्यमपि कुसीदम् । तदाति . कुसीदिकः, कुसीदिकी, टकारो ड्यर्थः ।३५॥ दशैकादशादिकश्च ॥ ६. ४. ३६ ॥
तमिति द्वितीयान्ताद्दशैकादशब्दद्रं गृह्णत्यर्थे इकलकारादिकट च प्रत्ययो भवति । दशभिरेकादश दशैकादशाः। तान्गृह्णाति दशैकादशिकः, दशैकादशिका, दशैकादशिकी दर्शकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान् गृह्णाति । अन्ये दशैकादश गृहातीति 'विगहन्ति । त्तदपि अबाधकान्यपि निपातनानि भवन्तीति न्यायादुपपद्यते ।३६।
अर्थपदपदोत्तरपदललामप्रतिकण्ठात् ॥ ६. ४. ३७ ।।
• गर्ये इति निवृत्तम्, अर्थात्पदास्पदशब्द उत्तरपदं यस्य तस्मात् ललामात प्रतिकण्ठाच्च द्वितीयान्तादहत्यर्थे इकण् प्रत्ययो भवति । अर्थं गृह्णाति आर्थिकः, 'पदं पादिकः, पदोत्तरपद, पूर्वपदं पौर्वपदिकः, औत्तरपदिकः, आदिपदिकः, आन्तपदिकः, ललाम लालामिकः, प्रतिकण्ठं प्रातिकण्ठिकः, अव्ययीभावसमासाश्रयणादिह न भवति । प्रतिगतः कण्ठं प्रतिकण्ठः तं गृह्णाति । उत्तरपदग्रहणाद्वहुप्रत्ययपूर्वान्न भवति, बहुपदं गृहाति ।३७।
न्या० स० अर्थ-ललिणो नित्यण्यन्तात् कर्मणिके ललस्तममति प्राप्नोति ललामः प्रतिकण्ठ मिति कण्ठे प्रति प्रतिकण्ठं लक्षणेनाभिप्रति' ३-१-३२ इत्यवव्ययीभावः, कण्ठंकण्ठं प्रति 'योग्यतावीप्स्या' ३-१-४० इति वा समासः।
प्रत्तिगत: कण्ठमिति ‘प्रात्य' ३-१-४७ इति समासस्तत्पुरुषः । परदारादिभ्यो गच्छति ॥ ६. ४. ३८ ॥
परदारादिभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थ इकण् प्रत्ययो भवति । परदारान गच्छति पारदारिकः, गौरदारिकः, गौरवरिपकः, सभर्तृकां गच्छति साभर्तृकिकः, भ्रातृजायिकः, परदारादयः प्रयोगगम्याः ।३८॥
__ न्या० स० पर०-भ्रातृजायिक इति भ्रातुः सकाशात् भातरि वा जायेति कृत्य, षष्ठीसमासे तु 'ऋतां पिया' ३-२-२७ इत्यलुप् स्यात् । प्रतिपथादिकश्च ।। ६. ४. ३९॥
प्रतिपथशब्दाद्वितीयान्तादच्छत्यर्थे इकः प्रत्ययो भवति । चकाराद्यथाप्राप्त इकण् । पन्थानं २ प्रति पयोऽभिमुखमिति वा प्रतिपथम् । तद्गच्छति प्रतिपथिकः प्रातिपथिको बा १३९॥