________________
१६४ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू. ३२-३५ ] हन्ति अनिमिषान् हन्तीत्यत्र कस्मान्न भवति । नैतन्मत्स्येत्यस्य स्वरूपं न विशेषो न पर्यायः अपि त्वसाधारणं विशेषणं यथा जिह्मगा भुजगाः अनिमिषा देवा इति ।३१ ___ न्या० स० पक्षि०-न पर्याय इति यः किल पर्यायशब्दः स व्युत्पत्तिमन्तरेणापि तावन्तमर्थ गमयत्ययं तु व्युत्पत्त्यपेक्ष एव गमयति ।
विशेषणमिति यत्रापि अजिह्मादिशब्देभ्यो मत्यादिप्रतीतिस्तत्राप्यसाधारणविशेषणत्वेनैव न पर्यायत्वेन। परिपन्थात्तिष्ठति च ॥ ६. ४. ३२ ॥
परिपन्थशब्दाद्वितीयान्तात्तिष्ठिति घ्नति चार्थे इकण् प्रत्ययो भवति । परिपन्थं तिष्ठति हन्ति वा पारिपन्थिकश्चौरः, अतः एव निर्देशात् परिपथशब्दस्येकणोऽन्यत्रापि वा परिपन्थादेशः, तेन परिपन्थं गच्छति परिपन्थं पश्यति इत्याद्यपि भवति ।३२।
__ न्या० स० परिपन्थमिति पथः परिशब्दो वजनार्थः तदा 'पर्यपाम्यां वये । इति पञ्चमी, 'पर्यपाबहिः' ३-१-३२ इति समासः, यदा तु परितः पन्थानमिति सर्वतोऽर्थः परिः तदा 'सर्वोभयाभिपरिणातसा' २-३-३५ (इति) द्वितीया, सूत्रसामर्थ्यादव्ययीभावः 'ऋपः पथ्यपोऽत् ' ७-३-७३। परिपथात् ॥ ६. ४. ३३॥
तिष्ठतीति वर्तते, परिपथशब्दाद्वितीयान्तात्तिष्ठत्यर्थे इकण् प्रत्ययो भवति । परिवर्जने सर्वतोभावे वा । पथः परि सर्वतः पन्थानं वा परिपथम् । परिपथं तिष्ठति पारिपथिकः, पन्थानं वर्जयित्वा व्याप्य वा तिष्ठतीत्यर्थः ।३३। अवृद्धग्रहति गर्ये ॥ ६. ४: ३४ ॥
तमिति द्वितीयान्तादिशब्दवजितागुह्मत्यर्थे इकण् प्रत्ययो भवति योऽसौ गृह्णाति स चेदन्यायेन ग्रहणाद्भर्यो निन्द्यो भवति । द्विगुणं गृह्णाति द्वैगुणिकः, त्रैगुणिकः, वृधुषीं वृद्धि गृह्णाति वार्षु षिकः, अल्पं दत्त्वा प्रभूतं गृह्णन्नपन्यायकारी निन्धते । अवृद्धेरिति किम् ? वृद्धि गृह्णातीति वाक्यमेव । गर्थे इति किम् ? दत्तं गृह्णाति ॥३४। - न्या० स० अ०-धुषीमिति प्रयुक्तं धनं पुष्णातीति प्रयुक्तधनपोषी तस्य पृषोदरादित्वात् वृधुषीशब्द आदेशः। कुसीदादिकद ॥ ६. ४. ३५॥
तमिति द्वितीयान्तात्कुसीदशब्दाहें गृह्णत्यर्थे इकट् प्रत्ययो भवति ।