________________
१६०] बृहवृत्ति-लघुन्याससंवलिते पा० ३. सू० ९-१५ ]
न्या० स० व्यज.-उपसिक्त एवेति सूपेन संसृष्टा स्थालीत्यनुपसिक्ते संसृष्टे प्रत्ययो न भवतीति प्रत्ययार्थव्यवस्था।
न्यजनैरेवेति उदकेनोपसिक्त ओदन इत्युदकादव्यञ्जनान्न भवतीति प्रकृतिव्यवस्था । तरति ॥ ६. ४. ९॥
तेनेति तृतीयान्तात्तरत्यर्थे इकण प्रत्ययो भवति । उडुवेन तरति औडुविकः काण्डप्लविकः, शारप्लविकः, गोपुच्छिकः ।। नौदिस्वरादिकः ॥ ६. ४.१०॥
नौशब्दाद्विस्वराच्च नाम्नस्तृतीयान्तात्तरत्यर्थे इकः प्रत्ययो भवति । नावा तरति नाविकः, नाविका, द्विस्वर, घटिकः, प्लविकः, दृतिकः, बाहुकः, बाहुका ।१०। चरति ॥ ६. ४. ११ ॥
तेनेति तृतीयान्ताच्चरत्यर्थे इकण् प्रत्ययो भवति । चरतिरिह गत्यर्थो भक्ष्यार्थश्चगृह्यते । गत्यर्थ, हस्तिना चरति हास्तिकः, शाकटिकः, घाण्टिकः, आकषिकः । आकषः सुवर्णनिकषोपलः औषधपेषणपाषाणश्च । भक्ष्यर्थ,-दधना चरति दाधिकः, शाङ्ग वेरिकः ॥११॥ पादेरिकट् ॥ ६. ४. १२ ॥
पर्प इत्येवमादिभ्यस्तृतीयान्तेभ्यश्चरस्यर्थे इकट् प्रत्ययो भवति । पर्पण चरति पपिकः, पपिकी, अश्विकः, अश्विकी। पर्प, अश्व, अश्वत्थ, रथ, अर्घ्य व्याल, व्यास इति पर्पादिः ॥१२॥ पदिकः ॥६. ४.१३॥ .
पादशब्दात्तेन चरत्यर्थे इकट् प्रत्ययो भवति अस्य पद्भावश्च निपात्यते। पादाभ्यां चरति पदिकः ।१३॥ श्वगणादा ।। ६. ४. १४ ॥
श्वगणशब्दात्तेन चरत्यर्थे इकट् प्रत्ययो वा भवति । श्वगणेन चरति श्वगणिकः, श्वगणिकी, पक्षे इकण् श्वागणिकः, श्वागणिकी ‘श्वादेरिति' (७-४-१०) इति वात्प्रागौर्न भवति ॥१४॥ वेतनादेर्जीवति ॥ ६. ४. १५॥
तेनेति वर्तते, वेतन इत्येवमादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकम् प्रत्ययो