________________
[ पाद. ३. सू. २१०-२१४ । श्रीसिहभचन्द्र शब्दानुशासनै षष्ठोध्यायः [१५५
कौरवक इति कुरोरेपत्यं कुरूणां राजा का 'दुनादि । ६-१-११४ इतिः व्यः कौरव्यं भजति मनुष्ये वाच्चे 'कच्छार्टनस्थे'६-३-५५ निस्थमञ्, अन्यत्र तु कुत्याांधरावा' ६-३-५३ इति वा अकञ् , पक्षे 'कोपान्त्याच्चाण' ६-३-५६ ।
यौगन्धरक इति युगंधराणां राजा युगंधरापत्यं वा 'साल्वांश' ६-१-११७ इति इज तं भजति औत्सर्गिकाण।
भतिदेशार्थमिति तेन वृजिकमद्रकपाण्डवक इतिः सिद्धं, अन्यथा पाण्यक इत्यादौ यकारश्रुतिः स्यात् , न वाच्यं तद्धितयस्वरे' २-४-९२ इति यलोपप्राप्तिः, अनापत्यत्वात् यकारस्य ।
नास्ति विशेष इति-आशक इत्याद्रि लिखितापेक्षया एतदुक्तं यावता आवन्तक इत्यादावस्त्येव विशेषः, अनापत्त्यत्वादावन्त्य इति स्थिते यलोपाप्रसङ्गात् । टस्तुल्यदिशि ॥ ६. ३. २१०॥
ट इति सहार्थतृतीयान्तात्तुल्यदिश्यर्थे यथाविहितं प्रत्ययो भवति । तुल्या, समाना, साधारणा दिक, यस्य तुल्य दिक् । एकदिगित्यर्थः । सुदाम्ना एकदिक् सौदामनी विद्युत्, सुदामा नाम्र पर्वतो यस्यां दिशि तस्यां विद्युत्, तेन सा सुदाम्ना सहैकंदिगुच्यते । सूर्येण सहकदिक् सौरी बलाका, हिमवता एकदिक् हैमवती गङ्गा, त्रिककुदा एकदिक् त्रैककुदी लङ्का ।२१०। तसिः ॥ ६. ३. २११ ॥
ट इति तृतीयान्तात्तुल्य विश्यर्षे तसिरित्ययं प्रत्ययो भवति । पूर्वेण यथास्वमणादय एयणादयश्च विहिताः प्रत्ययान्तरमिदं सर्वप्रकृतिविषयं विधीयते । सुदाम्ना एकदिक् सुदामतः, सूर्यतः, हिमवत्तः, त्रिककुत्तः, पीलुमूलतः, पार्थतः, पृष्ठतः, कारो 'बत्तस्याम्' (१-१-३४) इत्यत्र विशेषणार्थः ।२१॥
यश्चोरसः ॥ ६. ३. २१२ ।।
__ उरस् इत्येतस्मात्तृतीयान्तात्तुल्यदिश्यर्षे यः प्रत्ययश्चकारात्तसिश्च भक्तः, अणोऽपवादः। उरसा एकदिक् उरस्यः, उरस्तः ।२१२॥ सेनिवासादस्य ॥६. ३. २१३ ॥ .
सेरिति प्रश्रमान्तावस्येति षष्ठवर्षे यथाविहितं प्रत्ययो भवति यत्तस्मथ.. मान्तं निवासश्चेत्स भवति । निवस्त्यस्मिमिति निवासी देवा उच्यते । स्रघ्नो निवासोऽस्य स्रोग्घ्नः, माथुरः, मादेयः, राष्ट्रियः ।२१३॥
आभिजनात् ॥ १. ३. २१४ ॥ क्षेनिवासादस्येति वर्तते । अभिजनः पूर्वबान्धवाः, तेषामयमाभिजनः ।