________________
१५६ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३. सू. २१५-२१९ ] सः प्रथमान्तादाभिजनान्निवासादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति । सुग्घ्नोऽस्याभिजनो निवासः स्रोग्घ्नः, माथुरः, नादेयः, राष्ट्रियः ।२१४।
शण्डिकादेण्यः ॥ ६. ३. २१५ ॥ ___ शण्डिक इत्येवमादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्योऽस्येत्यस्मिन्नर्थे ण्यः प्रत्यया भवति, अणाद्यपवादः । शण्डिक आभिजनो निवासोऽस्य शाण्डिक्यः। कौचवार्यः । शण्डिक, कूचवार सर्वसेन, सर्वकेश, शङ्ख, शक, शट, रक, चरण (चणक), शंकर, बोध इति शण्डिकादिः ।२१५॥ सिन्ध्वादेञ् ॥ ६. ३. २१६ ॥
सिन्ध्वादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्योऽस्येत्यस्मिन्नर्थेऽञ् प्रत्ययो भवति । सिन्धुराभिजनो निवासोऽस्य सैन्धवः, वार्णवः, सिन्धु, वर्ण, मधुमत्, कम्बोज, कुलूज, गन्धार, कश्मीर, सल्व, किष्किन्ध, गब्दिक, उरस्, दरद, ग्रामणी, काण्डवरक सल्वान्तेभ्यो ननस्थाकञोपवादोऽञ् । शेषेभ्यो बहुविषयराष्ट्र लक्षणस्याको ग्रामणीकाण्डवरकाभ्यामीयस्य । तक्षशिलादिभ्यस्तु अञ् नोच्यते उत्सर्गेणैव सिद्धत्वात् ।२१६। ___न्या० स० सिन्ध्वादेर-अम् नोच्यत इति केचित्तक्षशिलादिभ्योऽत्र ब्रुवते, तन्न, बाधकप्रत्ययान्तराप्राप्तया 'प्राजितात् । ६-१-१३ इत्येव सिद्धत्वात् । सलातुरादीयण ॥ ६. ३. २१७॥
सलातुरशब्दात्प्रथमान्तादाभिजननिवासवाचिनोस्येत्यस्मिन्नर्थे ईयण प्रत्ययो भवति । सलातुर आभिजनो निवासोऽस्य सालातुरीयः पाणिनिः ।२१७॥
__ न्या० स० सलातुरा०–सलातुरेति सालैस्ततं सालततं तच्च तत्पुरं च सालतस्पुर, पृषोदरा दित्वात् सलातुरः। तूदीवर्मत्या एयण् ॥ ६. ३. २१८ ॥
तूदीवर्मतीशब्दाभ्यां प्रथमान्ताभ्यामाभिजननिवासवाचिभ्यामस्येत्यर्थे एयण प्रत्ययो भवति । तूदी आभिजनो निवासोऽस्य तौदेयः, वार्मतेयः ।२१८।
न्या० स० तूदीवर्म-तावानायामो यस्याः सा तावदायामा, पृषोदरादित्वात्तदादेशे गौरादिश्यां तूदी, वर्म तनोति 'क्वचित ' ५-१-१७१ इति डे गौरादिश्यां च धर्मती। गिरेरीयोऽस्म्राजीवे ॥ ६. ३. २१९ ॥
गिरिर्य आभिजनो निवासस्तदभिधायिनः प्रथमान्तादस्येति षष्ठयर्थे ईयः प्रत्ययो भवति अबाजीवे असमाजीवो जीविका यस्य तस्मिन्नायुधजीविन्यभिधेय इत्यर्थः । हदोलः पर्वत आभिजनो निवासोऽस्यास्त्राजीवस्य