SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [ पाद ३. सू. १४२-१४३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १३७ चिद्रढो भवति । कणिका कर्णाभरणविशेषः पद्माधवयवश्व, ललटिका ललाटमण्डनम् । रूढावित्येव ? कर्णे भवं कर्ण्यम्, ललाटयम्, लकारः खीत्वार्थः ।१४१। न्या० स० कर्णललाटा०-पद्माद्यवयवश्चेति कर्णे भवेति भवार्थस्तु व्युत्पत्तिमात्रं पद्माद्यवयवस्य कर्णे अभावात् । तस्य व्याख्याने च ग्रन्थात् ॥ ६. ३. १४२ ॥ ग्रन्थः शब्दसंदर्भः। स व्याख्यायतेऽवयवशः कथ्यते तेन तयाख्यानम् । तस्येति षष्ठयन्ताव्याख्यानेऽर्थे तोति सप्तम्यन्ताच्च भवेऽर्थे ग्रन्थवाचिनो यथाविहितं प्रत्ययो भवति । चकारस्तत्र भव इत्यस्यानुकर्षणार्थः । वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुच्चिनोति । कृतां व्याख्यानं कृत्सु भवं वा कार्तम्, प्रातिपदिकीयम् । ननु च तस्य व्याख्यानेऽर्थे 'तस्येदम्' (६-३-१५९) इत्यनेनैव प्रत्ययविधिः सिद्धः चकारानुकृष्ठऽपि तत्र भवेऽर्थे पूर्वमेव प्रत्ययविधिरुक्तस्तत्किमनयोयुगपदुपादानम् ? उच्यते, वक्ष्यमाणः सकलोऽप्यपवादविधिरनयोरर्थयोर्यथा स्यात् इत्येवमर्थम्, उत्तरेणैकयोगत्वे चानुकृष्टत्वात्तत्र भव इत्यस्य ततः परं नानुवृत्तिः स्यात् । योगविभागे विहानवत्तिरनथिकेति द्वयोरुत्तरत्रानुवृत्तिर्भवति । उदाहरणोपन्यासस्तु अनुवादमात्रम् । ग्रन्थादिति किम् ? पाटलिपुत्रस्य व्याख्यानी सुकोसला। पाटलिपुत्रमेवंसंनिवेशमिति सुकोसलया प्रतिच्छन्दकभूतया व्याख्यायते न तु पाटलिपुत्रं ग्रंथ इत्युत्तरेणापवादिक इकण् न भवति . ११४२॥ . ___ न्या० स० तस्य०-उदाहरणोपन्यास इति ननु कथमनर्थकत्वं भवानुवर्तनस्य यदि हि भव इति नानुवर्तते तदा प्रातिपदिकीयम् इत्यत्रापवादभूत इकण प्राप्नोति ? न, तत्र प्रायोग्रहणादेव न भविष्यति, तर्हि किमर्थतदुदाहरणं दयते, इत्याह-अनुवादमात्रम् ।। __व्याख्यानीति व्याख्यायतेऽनया वाच्यलिङ्गः । इकण न भवतीति किंतु 'रोपान्त्यात् । ६-३-४२ इत्यकञ् । प्रायो बहुस्वरादिकण ॥ ६. ३. १४३ ॥ बहुस्वराद्ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थे प्राय इकण प्रत्ययो भवति, अणादेरपवादः । षत्वणस्वयोव्याख्यानं तत्र भवं वा षात्वणत्विकम्, एवं नातानतिकम् । उदात्तानुदात्तयोः स्वरयोरेते नतानतसंज्ञे । आत्मनेपदपरस्मैपदिकम् । आव्ययीभावतत्पुरुषिकम् । नामाख्यातिकम्, आख्यातिकम्, ब्राह्मणिकम्, प्राथमिकम्, आध्वरिकम्, पौरश्चरणिकम् । प्रायोवचनात्क्वचिन्न भवति । सांहितम्, प्रातिपदिकीयम् ।१४३।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy