________________
१३६ ]
बृहवृत्ति-लघुन्याससंवलिते [ पाद. ३ सू० १३८-१४१ } आन्तश्मिकः, आन्तपुरिकः । अव्ययीभावादित्येव ? अन्तर्मतमगारस्य अन्तःस्थं वागारमन्तरमारम् तत्र भवभान्तरगारम् । आन्तःपुरम्, आन्तःकरणम् ।१३७।
न्या० स० अन्त:०-आन्तस्मिक इति वेश्मनोऽन्तः 'नपुंसकाद्वा ' ७-३-८९ (इति) अत्, अन्तर्वेश्मे अन्तर्वेश्म 'सप्तम्या वा' ३-२-४ अम् , अन्तर्वेश्म वा भवः ।। पर्यनो मात् ॥ ६. ३. १३८।।
परि अनु इत्येताभ्यां परो यो ग्रामशब्दस्तदन्तादव्ययीभावात्तत्र भके इकण प्रत्ययो भवति, अणोपवादः । ग्रामात्परि परिग्रामम्, ग्रामस्य समीपमनुग्रामम्, तत्र भवः पारिनामिकः, आनुग्रामिकः । अव्ययीभावादित्येव ? परिगतो ग्रामः परिग्रामस्तत्र भव: पारिग्रामः आनुग्रामः ।१३८। उपाज्जानुनीविकर्णात् प्रायेण ।। ६.३.१३९॥
उप इत्येतस्मात्परे ये जानुनीविकर्णशम्दास्तदन्तादव्ययीभावादिकण प्रत्ययो भवति प्रायेण तत्र भवे यस्तत्र बाहुल्येन भवति अन्यत्र च कदाचिद्भवति तस्मिन्नित्यर्थः । जानुन: समीपमुपजानु, प्रायेणोपजानु भवति
औपजानकः सेवकः, औपजानुकं शाटकम्, औपनीविकं ग्रीवादाम, औपनीविक कार्षापणम्, औपकणिकः सूचकः । प्रायेणेति किम् ? नित्यं भवे माभूत् । औपजानवं मांसम्, औपजानवं गड़, जानुशब्दो देहावयवो नोपजानुशन्द इति यो न भवति ।१३९। रुदावन्तःपुरादिकः ॥ ६. ३. १४० ॥
अन्तःपुरशब्दात्तत्र भवे इकः प्रत्ययो भवति रूढौ स चेदन्तःपुरशब्द: कचिद्रूढो भवति । क चायं रूढः एकपुरुषपरिग्रहे वीसमुदाये, उपचारात्तनिवासेऽपि । अन्तःपुरे भवा अन्तःपुरिका खी। रूढाविति किम् ? पुरस्यान्तर्गतम् अन्तःपुरम् यथान्तरगुलो नख इति । तत्र भवः मान्तःपुरः । पुरस्यान्तरन्तःपुरमिति अव्ययीभावात्त्विकण् भवति । आन्तःपुरिक इति ।१४०।
न्या० स० रुढा-अन्त:पुरमिति पुरस्य शरीरस्य अन्तर्गतं चित्तस्थं गृहस्य वाऽन्तर्गतम् , अव्ययीभावादिति रूढाविति वचनात् अव्ययीभावादिति निवृत्तं, अव्ययीभावे रूढेरसंभवात् , . अम्तःपुरमिति पत्र राज्ञोऽन्तःपुरमिति राज्ञः स्त्रीवर्ग उच्यते, नासावव्ययीभावार्थो भवति, अव्ययीभावो हि पूर्वपदार्थप्रधानोन्तरर्थप्रधान इति पूर्वेणेकणेव भवतीति । कर्णललाटाकल ॥ ६.३.१४१ ॥
रूढाविति वर्तते । सेह रूढिः प्रकृतिप्रत्ययसमुदायस्य विशेषणम् । . कर्णललाटशब्दाभ्यां तत्र भवे कल् भवति रूढी प्रकृतिप्रत्ययसमुदायवेक्व