SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [पाद. ३. सू. १३४-१३७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १३५ . यज्ञे ञ्यः ॥ ६. ३. १३४॥ चतुर्मासशन्दात्तत्र भवे यज्ञे ज्यः प्रत्ययो भवति । चतुर्यु मासेषु भवानि चातुर्मास्यानि यज्ञकर्माणि ।१३।। गम्भीरपञ्चजनबहिर्देवात् ।। ६. ३. १३५ ॥ गम्भीरपञ्चजनबहिर्देव इत्येतेभ्यस्तत्र भबे ज्यः प्रत्ययो भवति, अणाय. पवादः । गम्भीरे भवो गाम्भीर्यः, पाञ्चजन्यः, बाह्यः, दैव्यः । भवादन्यत्र गाम्भीरः, पाञ्चजनः, द्विगौ त्वणो लुपि पञ्चजनः । बाहीकः, देवः । भवेऽपि बाहीक इत्येके ।१३५१ न्या० स० गम्भीर०-द्विगौ त्वणो लपीति यदा पञ्चजनशब्दः पातालवाचकः रथकारपश्चमस्य चातुर्वर्णस्य वा इति व्याख्या तदा न द्विगुः, असंज्ञायां तस्य विधानात्, यदा तु पञ्चसु जनेषु भवस्तदा द्विगौ व्यः, अस्य विधानसामर्थ्यान्न लुप् । परिमुखादेख्ययीभावात् ॥ ६. ३. १३६ ॥ * परिमुख इत्येवमादिभ्योऽव्ययीभावेभ्यस्तत्र भवे ञ्यः प्रत्ययो भवति । अणोऽपवादः । परितः सर्वतो मुखं परिमुखम् । अत एव वचनादव्ययीभावः । वर्जनार्थो वा परिः । मुखात् परि परिमुखम् । 'पर्यपाङ्'-(३-१-३२) इत्यादिनाव्ययीभावः । परिमुखे भवः पारिमुख्यः, पारिहनव्यः, पार्योष्ठयः । परिमुखादेरिति किम् ? औपकूलम्, औपमूलम्, औपशाखम्, औपकुम्भम्, औपखलम्, आनुकुम्भम्, आनुकूलम्, आनुखलम् । अव्ययीभावादिति किम् ? परिग्लानो मुखाय परिमुखः तत्र भवः पारि मृखः । परिमुख, परिहनु, पर्योष्ठ पर्युलूखल, परिरथ, परिसिर, परिसीर, उपसीर, अनुसीर, उपस्थूण, उपस्थूल, उपकलाप, उपकपाल, अनुपथ, अनुगङ्ग, अनुतिल, अनुसीत, (अनुशीत) अनुमाष, अनुयव, अनुयूप, अनुवंश, अनुपद इति परिमुखादिः । अनवंशादिगादित्वाद्योऽपि अनुवंश्यः ।१३६। न्या० स० परि०-अत एव वचनादिति न तु 'पर्यपाङ्' ३-१-३२ इत्यादिना पञ्चम्यन्तेन सह तेन विधानात् परेश्वात्र वर्जनार्थाभावात् 'पर्यपाभ्याम् ' २-२-७१ इति पञ्चम्यभावः । ___परिसिरेति सिनोतेः 'ऋज्यजि' ३०८ ( उणादि) इति किति रे सिग। परिसीरेति सिनोतेः 'विजि' इति दीर्घत्वे च सीरा । अन्तःपूर्वादिकण् च ॥ ६. ३. १३७ ॥ ___ अन्तःशब्दपूर्वपदादव्ययीभावात्तत्र भवे इकण् प्रत्ययो भवति, अणोऽपवादः । अगारस्यान्तः अन्तरगारम्, तत्र भव आन्तरगारिकः । आन्त हिकः,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy