________________
१३४ J
बृहद्वृत्ति-लघुन्याससंघलिते [पाद. ३ सू० १३०-१३३ ) युष्मद्वर्यः, युष्मद्वर्गीयः, अस्मद्वर्गीणः, अस्मद्वर्यः, अस्मद्वर्गीयः, अशब्द इति किम् ? कवर्गीयः ॥१२९।। दतिकुक्षिकलशिवस्त्यहेरेयण ॥ ६. ३. १३०॥
एभ्यः सप्तम्यन्तेभ्यो भवेऽर्थे एयण् प्रत्ययो भवति । अणादीनामपवादः । दृतौ चर्मखल्वायां भवं दातयं जलम्, कुक्षौ देहांशे भवः कौक्षेयो व्याधिः, देशार्थादपि भवे परत्वात् अयमेव न धूमाद्यकञ् । असावप्ययमेर न कुलकुक्ष्याद्येयकञ् । असि कौक्षेयमुद्यम्य, कलश्यां मन्थन्यां भवं कालं शेयं तक्रम् । वस्तौ पुरीषनिर्गमरन्ध्रे भवं वास्तेयं पुरीषम् । अहौ भवमाहेयं विषम् ॥१३०॥
न्या० स० दृति०-अयमेवेति भवादन्यत्र जातादावथें तस्य चरितार्थत्वात् । असावपीति . खड्गेऽपीत्यर्थः। कलक्ष्यामिति कल्यते स्म क्ते कलितः, कलितं क्षिप्तं परिच्छिन्नमश्नुते व्याप्नोतीति कर्मणोऽणि कलिताशी, पृषोदरादित्वात् कलशिरित्यादेशः ।
आस्तेयम् ॥ ६. ३. १३१ ॥ . __ अस्तिशब्दात्तिवन्तप्रतिरूपकाद्व्ययाद्धन विद्यमानपर्यायत्तत्र भवे एयण प्रत्ययो निपात्यते असृजशब्दस्य वास्त्यादेशश्च । धने वा विद्यमाने वा असृजि वा भवमास्तेयम् ।१३१॥ ग्रीवातोण च ॥ ६. ३. १३२॥
ग्रीवाशब्दाद्भवेऽर्थेऽण् चकारादेयण च प्रत्ययो भवतः, देहांशयापवादः । ग्रीवायां ग्रीवासु वा भवं ग्रंवंवेयम्, ग्रीवाशब्दो यदा शिरोधमनीवचनस्तदा तासां बहुत्वाद्वहुवचनम् ।१३२।
न्या० स० ग्रीवातो०- त्रैवमिति 'ग्रीवेभ्योऽण् च'
इति पाणीनीयसूत्रे बहुवचेन ज्ञापितत्वात् ग्रीवासु भवमिति बहुत्वे एव प्रत्ययो न ग्रीवायां भव इत्येकत्वे । चातुर्मासान्नाम्नि ।। ६.३.१३३ ॥
चतुर्मासशब्दात्तत्र भवेऽण् प्रत्ययो भवति नाम्नि समुदायश्चेन्नाम भवति । चतुषु मासेषु भवा चातुर्मासी, आषाढी, कार्तिकी, फाल्गुनी च पौर्णमासी भण्यते । अत्र विधानसामर्थ्यात् 'द्विगोरनपत्ये '-(६-१-२४) इत्यादिना प्रत्ययस्य लुब् न भवति । नानीति किम् ? चतुर्षु मासेषु भवश्चतुर्मासः । अत्र 'वर्षाकालेभ्यः' (६-३-७९) इतीकण् । तस्य लुप् ।१३३॥