SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [पाद. ३. सू. १२५-१२९ । श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [१३३ पाण्यः । पद्यः । तालव्यः । मुख्यः । जघन्यः । देहांशात्तदन्तादपीच्छन्त्येके । कण्ठतालव्यः, दन्तोष्ठयः । दिश, वर्ग, पूग, गण, यूथ, 'पक्ष, घाय्या, मित्र, धाय्यमित्र, मेषा, न्याय, अन्तर्, पथिन्, रहस्, अलीक, उख, उखा, साक्षिन्, आदि, अन्त, मुख, जघन, मेघ, वंश, अनुवंश, देश, काल, वेश, आकाश, अप् इति दिगादिः ॥ मुखजघनबंशानुवंशानाम् अदेहांतार्थः पाठः, सेनाया यन्मुखं तत्र भवो मुख्यः, सेनाया यज्जघनं तत्र भवो जघन्यः, बंशोऽन्वयस्तत्र भवो बंश्यः । एवमनुवंश्यः ।१२४। ___न्या० स० दिया०-अदेहांशा इति देहांअर्थत्वे इति तु अनुवंशस्य मताभिप्रायेण यस्य सिद्धिः, स्वमत्ते तदन्तविधिनिरासान् ।। नाम्न्युदकात् ॥ ६. ३. १२५॥ - उदकशब्दात्सप्तम्यन्ताद्भवेऽर्थे यः प्रत्ययो भवति नाम्नि । उक्या रजस्वला । नाम्नीति किम् ? औदको मत्स्यः ।१२५॥ न्या. स. नाम्न्यु०-उदक्येति उदके भवा नैमित्तिक आधारः । मध्यादिनण्णेया मोऽन्तश्च ॥ ६. ३. १२६ ॥ मध्यशब्दात्सप्तम्यन्ताद्भवेऽर्थे दिनम् ण ईय इत्येते प्रत्यया भवन्ति तत्संनियोगे च मागमो भवति । मध्ये भवा माध्यंदिना उदायन्ति, माध्यमः, मध्यमीयः, अन्ये तु दिनं णितं नेच्छन्ति, मध्यंदिनः ।१२६। जिह्वामूलाङ्गुलेश्चेयः ॥ ६. ३. १२७ ॥ जिह्वामूल अङगुलि इत्येताभ्यां मध्यशब्दाच्च भवेऽर्थे ईयः प्रत्ययो भवति, यापवादः । जिह्वामूले भवो जिह्वामूलीयः, अङ्गुलीयः, मध्यीयः, चकारेण मध्यशब्दानुकर्षणं मागमाभावार्थम् ।१२७। न्या० स० जिला०-यापवाद इति ‘दिगादि' ६-३-१२४ इति प्राप्तस्य । वगान्तात् ॥ ६. ३. १२८ ॥ वर्गशब्दान्तात्सप्तम्यन्ताद्भवेऽर्थ ईयः प्रत्ययो भवति, अणोऽपवादः । कवर्गीयः, पवर्गीयो वर्णः ।१२८॥ ईनयी चाशब्दे ॥ ६. ३. १२९॥ __ वर्गशब्दान्तात्सप्तम्यन्ताद्भवेऽर्षे ईनय इत्येतौ चकारादीयश्च प्रत्यया भवन्ति अशब्दे न चेत्स भवार्थः शब्दो भवति । भरतवर्गीणः, भरतवर्यः, भरतवर्गीयः, बाहुबलिवर्गीणः, बाहुबलिवर्यः, बाहुबलिवर्गीयः, युष्मद्वर्गीणः,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy