SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३८ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू० १४४-१४६ ] न्या० स० प्रायो०-नातानतिकमिति नतोऽनुदात्तः अनतस्तूदात्तोऽल्पस्वरत्वान्नतस्य पूर्वनिपातः, पौरश्चरणिकमिति परो विपाककालादर्वाक चर्यते पुरश्चरणं 'भूजिपत्यादिभ्यः' ५-३-१२८ प्रायश्चित्तं, तत्प्रतिपादको ग्रन्थोऽपि । ऋगृद्धिस्वरयागेभ्यः ॥ ६. ३. १४४॥ ऋच् इत्येतस्मात् ऋकारान्तात् द्विस्वरात् यागशब्देभ्यश्च ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चार्थे इकण् प्रत्ययो भवति, अणादेरपवादः । ऋचां व्याख्यानमा भवं वा आचिकम्, ऋकारान्त,-चतुर्दा होतृषु भव इत्यणो लुपि चतुर्होता ग्रंथः, तस्य व्याख्यानं तत्र भवं वा चातु)तृकम् । एवं पाञ्चहोतृकम, द्विस्वर,-आङ्गिकम्, पौर्विकम्, सौत्रिकम्, ताकिकम्, नामिकम्, याग,-आग्निष्टोमिकम्, राजसूयिकम्, वाजपेयिकम्, पाकयज्ञिकम्, नावयज्ञिकम्, पाञ्चौदनिकम्, दाशीदनिकम्, ऋद्यागग्रहणं पूर्वस्यैव प्रपञ्चः । यागेभ्य इति बहुवचनं ससोमकानामग्विष्टोमादीनाम् असोमकानां पञ्चौदनादीनां च परिग्रहार्थम् ।१४४।। ____ न्या० स० ऋ०-नावयज्ञिकमित्यादि नवसु यज्ञेषु, पञ्चसु दशसु ओदनेषु भवः अण् तस्य 'द्विगोः' ७-१-१४४ इति लुप् , ऋद्यागग्रहणमिति ऋदन्तानां यागवाचिनां च द्विस्वराणां द्विस्वरेत्यंशेन बहुस्वराणां तु 'प्रायो बहुस्वरात्' ६-३-१४३ इति सिध्यति, एकस्वरास्तु न संभवत्येव तत् किमर्थमिदम् ? इत्याह-पूर्वस्यैवेति प्रायो बहुवरात् ' ६-३-१४३ इत्यस्येत्यर्थः । असोमकानामिति अन्यथा गौणमुख्ययोः इति न्यायेन ससोमकानां मुख्यानामग्निष्टोमादीनामेव ग्रहणं स्यादिति । ऋषेरध्याये ॥ ६. ३. १.४५॥ ऋषिशब्देभ्यो ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चाध्याये इकण् प्रत्ययो भवति । वसिष्ठस्य ग्रंथस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः, वैश्वामित्रिकोऽध्यायः । अध्याय इति किम् ? वसिष्ठस्य व्याख्यानी तत्र भवा वा वासिष्ठी ऋक् । 'प्रायो बहुस्वरात्' (६-३-४२) इति प्रायोग्रहणादप्राप्तिकल्पनायां विध्यर्थम् प्राप्तिकल्पनायामध्याय एवेति नियमार्थं वचनम् ।१४५। न्या० स० ऋषे०-ग्रन्थस्येति वसिष्ठादिसाहचर्यात् ग्रन्थोऽपि तथोच्यते । प्राप्तिकल्पनायामिति प्रायोग्रहस्य यादृच्छिकत्वात् । पुरोडाशपौरोडाशादिकेकटौ ॥ ६. ३. १४६ ॥ आभ्यां ग्रंथवाचिभ्यां तस्य व्याख्याने तत्र भवे चार्थे इक इकट् इत्येतो प्रत्ययौ भवतः, अणीययोरिकणोऽपवादः । वचनभेदाद्यथासंख्याभावः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy