________________
१२६ ]
बृहद्वृत्ति- लघुन्यास संवलिते
7
अश्वत्थामनि भवो जाता वा अश्वत्थामा अः स्थ नः [ ६-१-२२ ] इत्यः । तस्य लुप् । सिहाजिने भवो जातो वा सिंहाजिन: उलाजिनः, नृकाजिनः । भवार्थस्यैव लुपमिच्छन्त्यन्ये तन्मते अश्वत्थाम्नोऽयं तत आगतो वा अश्वत्थामः एवं सैंहाजिनः वार्काजिनः इत्यादौ न भवति । ९३ ।
[ पा० ३. सू० ९४-९७ J
तत्र कृतलब्धक्रीत संभूते ॥ ६. ३. ९४ ॥
अणादय एयणादयश्च सविशेषणा अनुवर्तन्ते तत्रेति सप्तम्यन्तात् कृते लब्धे क्रीते संभूते चार्थे यथायोगमणादय एयणादयश्च प्रत्यया भवन्ति । यदन्येनोत्पादितं तत्कृतम् । यत्प्रतिग्रहादिना प्राप्तं तल्लब्धम्, यन्मूल्येन स्वीकृतम् तत् क्रीतम् । यत्संभाव्यते संमाति वा तत्संभूतम् । स्रुग्घ्ने कृतो लब्धः क्रीतः संभूतो वा स्रौघ्नः, एवं माथुरः, अत्राण् औत्सः उत्साद्यञ् । बाह्यः, बाहकः । ' बहिषष्टी कण्च ' ( ६-१-१६) । नादेयः नद्यादित्वादेयण् । राष्ट्रिय: । ' राष्ट्रादिय:' ( ६-३-३ ) । पारावरीणः । ' पारावारादीनः ( ६-३-६ ) । तत्रेति किम् । देवदत्तेन क्रीतः । कृतलब्धक्रीतसंभूत इति किम् ? शयने शेते, आसन आस्ते |१४|
न्या० स० तत्र० - यत्संभाव्यते इति उत्पत्तिज्ञानं संभावना, तत्र उत्पद्यते तत्र घटते इत्यर्थः । संमाति वेति प्रमाणानतिरेकेणावतिष्ठते । तत्संभूतमिति संमात्यर्थे अकर्मकत्वाच्छील्यादित्वात् सति कर्त्तरि क्तः, इतरे तु अन्तर्भूतव्यर्थत्वात् कर्मणि कः ।
कुशले ।। ६. ३. ९५ ॥
तत्रेति सप्तम्यन्तात्कुशलेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । स्रुध्ने कुशलः स्रौघ्नः माथुरः, नादेयः, राष्ट्रिय योगविभाग उत्तरार्थः । ९५।
पथोऽकः ।। ६. ३.९६ ॥
तत्रेति सप्तम्यन्तात्पथिन्शब्दात्कुशलेऽर्थेऽकः प्रत्ययो भवति, अणोऽपवादः । पथि कुशल: पथकः । ९६ ।
कोऽस्मादेः ॥ ६. ३. ९७ ॥
तत्रेति सप्तम्यन्तेभ्योऽश्मन् इत्यादिभ्यः कुशलेऽर्थे कः प्रत्ययो भवति । अणादेरपवादः । अश्मनि कुशल: अश्मकः, अशनिकः आकर्षकः । अश्मादय उपचारात्तद्विषयायां क्रियायां वर्तमानाः प्रत्ययमुत्पादयन्ति तत्रैव कुशलार्थयोगात् । प्रत्ययान्तरकरणमिकारोकारान्तशब्दार्थम् || अन्यथा तेषु अनिष्टं