SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [पाद. ३ सू. ९०-९३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १२५ अण्ग्रहणं स्वातिराधाापौर्णमासीभ्य ईयबाधनार्थम् । यथाविहितमित्युच्यमाने दोरीय इतीयः प्राप्नोति । कालेभ्य इत्येव ? स्वातेरिदमुदयस्थानम् स्वातीयम्, एवं राधीयम्, आर्दीयम् । सन्ध्या सन्धिवेला अमावास्या त्रयोदशी, चतुर्दशी," पञ्चदशी, पौर्णमासी, प्रतिपत्, शश्वत् इति संध्यादिः । ऋवर्णोवर्णात्'(७-४-७१) इति सूत्रेऽशश्वदिति प्रतिषेधाच्छश्वच्छब्दात् इकणपि । शाश्वतम् शाश्वतिकम् ।८९।। न्या० स० भर्तु० एकदेशविकृतस्येति 'वाधारेमावस्या' ५-१-२१ इति हृस्वत्वे एकदेशविकृतत्वम् । अण्ग्रहण:मति अन्यथा योऽन्येन बाधितो न प्राप्नोति स भवति, स चाणेवेति न्यायात् सिद्धं, किं तद्ग्रहणेन ? ईयबाधनार्थमिति ननु कालेकण प्राप्नोति तत् किमुक्तं ईयबाधनार्थमिति १ सत्यं, सूत्रकरणात् कालेकणू न भवति । ____ इकणपीति 'वर्षाकालेभ्यः' ६-३-८० इत्यनेन, न वाच्यं प्रयोजनेकणि चरितार्थः, यतः प्रयोजनार्थे इकण् अस्मान्नेष्यत एव । संवत्सराफलपर्वणो ॥ ६. ३. ९०॥ संवत्सरशब्दात्फले पर्वणि च शेषेऽर्थेऽण् प्रत्ययो भवति । सांवत्सरं फलम्, सांवत्सरं पर्व । फलपर्वणोरिति किम् ? सांवत्सरिकं श्राद्धम् ।९०। हेमन्तादा तलुक् च ॥ ६. ३. ९१ ॥ हेमन्तशब्दादृतुविशेषवाचिनः शेषेऽर्थेऽण् वा भवति तत्संनियोगे च तकारस्य लुग्बा भवति । नित्यमणि प्राप्ते विभाषा । तथा त्रैरूप्यम्, हैमनम्, हैमन्तम्, हैमन्तिकम्, तदन्तविधिना पूर्वहैमनम् । 'अंशादृतोः' [७-४-१४ ] इत्युत्तरपदवृद्धिः ।९१॥ प्रावृष एण्यः ॥ ६. ३. ९२॥ प्रावृष् इत्येतस्मात् ऋतुवाचिनः शेषेऽर्थे एण्यः प्रत्ययो भवति, अणोऽपवादः । प्रावृषि भवः प्रावृषेण्यः । जाते तु परत्वादिक एव । प्रावृषि जातः प्रावृषिकः, एण्य इति प्रत्यये मूर्धन्यो णकारो निनिमित्तकः प्रावृषेण्ययतीति ण्यन्तात् किपि प्रावृषेण् इति मूर्धन्यार्थः ।९२। न्या० स० प्रा० निनिमित्तक इति न तु 'रघुवर्ण' २-३-६३ इत्यनेन मूर्धन्यार्थ इति, अन्यथा न लोपरूपे परे कार्ये 'णषम' २-१-६० इति णत्वस्यासत्त्वादन्यत्वाच्च ‘रवर्णः' २-३-६३ इत्यप्रवृत्ती 'नाम्नो नोनह्नः' २-१-९१ इति नलोपेऽनिष्टं रूपं स्यात् । स्थामाजिनान्ताल्लुप ॥ ६. ३. ९३ ॥ स्थाम नशब्दान्तादजिनान्ताच्च परस्य शैषिकस्य प्रत्ययस्य लुप् भवति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy