SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १२४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ ० ८६-८९ ] परारितनमित्यत्रैव स्यात् , परुन्तनमित्यत्र तु अन्त्यस्वरात् परस्य तकाराच्च प्राक् स्थितस्य न स्यात् । पुरोनः ॥ ६. ३. ८६॥ पुराशब्दात्कालवाचिनोऽव्ययाच्छेषेऽर्थे नः प्रत्ययो भवति वा । पुरा भवं पुराणम्, पुरातनम् ।८६। पूवालापराह्णात्तनट् ॥ ६. ३. ८७ ॥ पूर्वाह्न अपराह्न इत्येताभ्यां कालवाचिभ्यां शेषेऽर्थे तनट् प्रत्ययो वा भवति । 'वर्षाकालेभ्यः' (६-३-७९) इति नित्यमिकणि प्राप्ते विकल्पः, तेन पक्षे सोऽपि भवति, पूर्वाह्न जातो भवो वा पूर्वाह्नतनः। पूर्वाह्नतनः, अपराह्नेतनः, अपराह्णतनः, 'कालात्तन' (३-२-२४) इत्यादिना वा सप्तम्या अलुप् । पूर्वाह्न जयी पूर्वाह्नतनः, अपराह्नतनः। अत्र जयिनि वाच्ये तत्र व्यवस्थितविभाषाविज्ञानात् नित्यं सप्तम्या लुप्, पक्षे पौर्वाहिकः, आपरालिकः। टकारो ड्यर्थः । पूर्वाह्नतनी, अपराह्नेतनी ८७। सायंचिरंपालेप्रगेऽव्ययात् ॥ ६. ३. ८८॥ ____ योगविभागाद्वेति निवृत्तम्, सायंचिरंप्राहेप्रगे इत्येतेभ्योऽव्ययेभ्यश्च कालवाचिभ्यः शेषेऽर्थे तनट् प्रत्ययो नित्यं भवति । साये भवं सायन्तनम्, चिरे चिरन्तनम्, अत एव निर्देशान्मान्तत्वं निपात्यते। प्रातनम्, प्रगेतनम्, अनयोरेकारान्तत्वम् । अव्यय, दिवातनम्, दोषातनम्, नक्तंतनम्, पुनस्तनम्, प्रातस्तनम्, प्राक्तनत् । कालेभ्य इत्येव ? स्वर्भवं सौवम्, सायंचिरंप्राह प्रगे इत्यव्ययेभ्योऽव्ययादित्येव सिद्ध सायचिरप्राह्नप्रगशब्देभ्य स्तनविधानं कालेकण्बाधनार्थम् ।८८। भर्तुसंध्यादेरण ॥ ६. ३. ८९ ॥ भं नक्षत्रं तद्वाचिभ्य ऋतुवाचिभ्यः संध्यादिभ्यश्च कालवाचिभ्यः शेषेऽर्थेऽण् प्रत्ययो भवति, इकणोऽपवादः । पुष्येण चन्द्रयुक्तेन युक्तः काल: पुष्यः । 'चन्द्रयुक्त'-(६-२-७) इत्यादिनाण् । तस्य लुप्, पुष्ये भवः पौषः, एवं तैष: आश्विनः रौहिणः, सौवातः । ऋतु गृष्मः, शैशिरः, वासन्तः ऋतोणित् प्रत्ययस्तदवयवादेरपि भवति । पूर्वगृष्मः, अपरशैशिरः । 'अंशादृतोः' (७-४-१४) इत्युत्तरपदवृद्धिः । सन्ध्यादि, सान्ध्यः, साधिवेलः, आमावास्यः । एकदेशविकृतस्यानन्यत्वादमावस्याशब्दादपि भवति । आमावस्यः,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy