SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [ पाद. ३. सू. ८१-८५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्टोध्यायः [ १२३ __विशेषवाचीति गृह्यत इति शेषः, मासाद्यपेक्षया कालशब्दोऽपि कालविशेषवाची तेन कालिक इत्यपि । ___ यथाकथंचिदिति यथाकथंचित् गुणवृत्त्या मुख्यवृत्त्या वा ये काले वर्तन्ते इत्यर्थः । अकालादपीति-अकालशब्दश्च यदा कालमुपलक्षणीकृत्य काले वर्त्तते गुणवृत्त्यैव तदाकालशब्दात कालार्थात् प्रत्ययो भवति यथादर्शितात् कदम्बपुष्पादेः। यो विधिरिति कालेभ्य इत्यंशेन यो विधिः स तस्माद् भवतीति । शरदः श्राद्धे कर्मणि ॥ ६. ३. ८१ ॥ शरच्छब्दात्कालवाचिनः श्राद्धे कर्मणि पितृकार्ये शेषेऽर्थे इकण् प्रत्ययो भवति, ऋत्वणोऽपवादः । शारदिकं श्राद्धकर्म। कर्मणीति किम् ? शारदः श्राद्धः, श्रद्धावानित्यर्थः । श्राद्ध इति किम् ? शारदं विरेचनम् ।८१। नवा रोगातपे ॥ ६. ३. ८२॥ . शरच्छब्दात्कालवाचिनो रोगे आतपे च शेषेऽर्थे इकण प्रत्ययो भवति वा, ऋत्वणोऽपवादः । शारदिकः शारदो वा रोगः, शारदिकः शारद आतपः । रोगातप इति किम् ? शारदं दधि ।८२। निशाप्रदोषात् ॥ ६. ३. ८३ ॥ - निशाप्रदोषशब्दाभ्यां कालवाचिभ्यां शेषेऽर्थे 'वर्षाकालेभ्यः' (६-३-७९) इति नित्यं प्राप्त इकण वा भवति । नैशिकः नैशः प्रादोषिकः प्रादोषः ।८३। श्वसस्तादिः ॥ ६. ३. ८४ ॥ __ श्वस् इत्येतस्मात्कालवाचिनः शेषेऽर्थे इकण् प्रत्ययो वा भवति स च तादिः । शौवस्तिकः, पक्षे 'ऐषमोह्यःश्वसो वा' (६-३-१८) इति त्यच् । श्वस्त्यम् । तत्रापि वाग्रहणात् पक्षे 'सायम्'-(६-३-८७) इत्यादिना तनट् । श्वस्तनम् ।८४१ चिरपरुत्परारेस्त्नः ॥ ६. ३. ८५ ॥ चिरपरुत्परारि इत्येतेभ्यः कालवाचिभ्यः शेषेऽर्थे त्नः प्रत्ययो भवति वा, चिरत्नं परत्नं परारितम्, पक्षे 'सायम्' [६-३-८७ ] इत्यादिना तनट् । चिरंतनम्, परुत्तनम्, परारितनम्, परुत्परारिभ्यां विकल्पं नेच्छन्त्यन्ये । परारेस्तु रिलोप इत्येके, परात्नः। केचित्तु परुत्परार्योस्तनटयन्त्यस्वरात्परं स्वागममिच्छन्ति । परुन्तनम्, परारितनम् ।८५। न्या० स० चिर०-म्वागममिति मोरुदित्करणं 'तौ मुमौ' १-३-१४ इत्यनुस्वरार्थ, अन्यथाऽपदान्तत्वान्न स्यात् , 'नाम सिदय् १-१-२१ इत्यनेनापि मस्य पदान्तत्वं
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy