________________
१२२ ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद. ३ सू० ७९-८० | वृद्धिः । अकस्मात् हेतुशून्यः कालः तत्र भवमाकस्मिकम् । अमुष्मिन्परलोके भवम् आमुष्मिकम्, एवमामुत्रिकम्, पारत्रिकम्, इह भवमोहिकम्, शैषिकम् पाठसामर्थ्यात्सप्तम्या अलुप् । अध्यात्मादयः प्रयोगगम्याः ॥७८॥
6
न्या० स० अध्यात्मा० - आत्मनि इति विगृह्य अनः ' ७-३-८८ इत्यत् समासान्तः ततः सप्तम्यर्थस्योक्तत्वात् सिप्रत्ययः, यद्वा स्यादवादात् प्रकृतिभेदेन कारकभेदे सप्तम्यन्तादिकण् ।
6
मुष्मिकमिति ननु 'नोपदस्य ७-४-६१ इति कथमन्त्यस्वरादिलोपः, 'तदन्तं पदम् ' १- १ - २० इति पदत्वात्वान्न प्राप्नोति ? न, नाम सिदय्' १-१-२१ इति नियमात्पदत्वाभावः । एवमामुत्रिकमिति एवंशब्दः परलोकलक्षणं सादृश्यमवगमयति द्वयोः ।
समान पूर्वलोकोत्तरपदात् ।। ६. ३. ७९ ।।
समानपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण् प्रत्ययो भवति । समानग्रामे कृतो भवो वा सामानग्रामिकः, सामानदेशिकः, इह लोके कृतो भवो वा ऐहलौकिकः, पारलौकिकः, सार्वलौकिकः, योगद्वयेऽपि भवार्थ एव प्रत्यय इत्यन्ये ॥ ७९ ॥
वर्षाकालेभ्यः ॥ ६. ३. ८० ।।
वर्षा शब्दात्कालविशेषवाचिभ्यश्व शेषेऽर्थे इकण् प्रत्ययो भवति, अणपवादः दोरीयमपि परत्वाद्वाधते । वर्षासु भवो वार्षिकः, ऋतोणित् प्रत्ययंस्तदवयवादेऋत्वन्तादपि भवत्यभिधानात् । पूर्ववार्षिकः, अपरवार्षिकः । एवमुत्तरत्रापि । कालवाचि, मासिकः, आर्धमासिकः, सांवत्सरिकः, आह्निकः, देवसिकः, वर्षाग्रहणं मृत्वण्बाधनार्थम् । कालशब्दः काल विशेषवाची । ' भर्तु संध्यादेरण् ( ६- ३ - ८८ ) इत्यत्र संध्यादिग्रहणात् । स्वरूपग्रहणे हि काललक्षणेकण्बाधकं सध्या दिग्रहणमनर्थकं स्यात् । बहुवचनं तु यथाकथंचित् कालवृत्तिभ्यः प्रत्ययप्रापणार्थं, निशासहचरितमध्ययनं निशा प्रदोषसहचरितं प्रदोषः तत्र जयी नैशिकः प्रादोषिकः । कदम्बपुष्पसहचरितः कालः कदम्बपुष्पं व्रीहिपलाल सहचरितः कालो व्रीहिपलालम् । तत्र देयमृणं कादम्बपुष्पिकं वैहिपलालिकम् । कालशब्दात्तु कालार्थादकालार्थाच्च कालतः, अकालादपि कालार्थात् 'कालेभ्यः' इति यो विधिः ८०
,
न्या० स० वर्षा० - पूर्ववार्षिक इति पूर्वाश्च ता वर्षाश्च 'पूर्वापरप्रथम' ३-१-१०३ इति समासः, पूर्वासु वर्षासु भष इति तद्धितविषये 'दिगधिकम् ३-१-९८ इत्यनेन वा, वर्षाणां पूर्वत्वमिति 'पूर्वापराध' ३-१-५२ इत्यादिना तत्पुरुषो वा 'अंशादुदृतो:' ७-४-११ इत्युत्तरपदवृद्धिः, विशेषविहितत्वात् परत्वाच्चानेन 'दिक्पूर्वात् ' ६- ३-७१ इति बाध्यते ।